SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ [सू० ६१९-६२१] अष्टममध्ययनम् अष्टस्थानकम् । सातिशयानन्तरशिष्याः, आवश्यके तूभयेऽपि दश श्रूयन्ते, दस नवगं गणाण माणं जिणिंदाणं [आव० नि० २६८] इति वचनात् जावइया जस्स गणा तावइया गणहरा तस्स [आव०नि० २६९) इति वचनाच्च । तदिहाल्पायुष्कत्वादिकं कारणमपेक्ष्य द्वयोरविवक्षणमिति सम्भाव्यते, न चाष्टस्थानकानुरोध इह समाधानं वक्तुं शक्यते पर्युषणाकल्पेऽप्यष्टानामेवाभिधानादिति। [सू० ६१९] अट्ठविधे दंसणे पन्नत्ते, तंजहा-सम्मइंसणे, मिच्छदंसणे, सम्मामिच्छदसणे, चक्खुदंसणे, जाव केवलदंसणे, सुविणदंसणे । [टी०] गणधराश्च दर्शनवन्त इति दर्शनं निरूपयन्नाह- अट्ठविहे दंसणे इत्यादि कण्ठ्यम्, केवलं स्वप्नदर्शनस्याचक्षुर्दर्शनान्तर्भावेऽपि सुप्तावस्थोपाधितो भेदो विवक्षित 5 इति । 10 [सू० ६२०] अट्ठविधे अद्धोवमिते पन्नत्ते, तंजहा-पलितोवमे, सागरोवमे, ओसप्पिणी, उस्सप्पिणी, पोग्गलपरियट्टे, तीतद्धा, अणागतद्धा, सव्वद्धा । [टी०] सम्यग्दर्शनादेश्च स्थितिप्रमाणमौपम्याद्धया भवतीति तां प्ररूपयन्नाह– अट्ठविहे अद्धोवमिते इत्यादि सुगमम्, नवरम् औपम्यमुपमा पल्य-सागररूपा तत्प्रधाना अद्धा कालोऽद्धौपम्यं राजदन्तादिदर्शनात्, पल्येनोपमा यत्र काले परिमाणत: स पल्योपमम्, 15 रूढितो नपुंसकलिङ्गता, एवं सागरोपमम्, अवसर्पिण्यादीनां तु सागरोपमनिष्पन्नत्वादुपमाकालत्वं भावनीयम्, समयादिस्तु शीर्षप्रहेलिकान्त: कालोऽनुपमाकाल इति। _[सू० ६२१] अरहतो णं अरिट्टनेमिस्स जाव अट्ठमातो पुरिसजुगातो जुगंतकरभूमी, दुवासपरियाते अंतमकासी । [टी०] कालाधिकारादिदमपरमाह- अरहओ इत्यादि, जाव अट्ठमाउ त्ति अष्टमं 20 पुरुषयुगम् अष्टमपुरुषकालं यावत् युगान्तकरभूमि: पुरुषलक्षणयुगापेक्षयाऽन्तकराणां भवक्षयकारिणां भूमिः कालः सा आसीदिति । इदमुक्तं भवति- नेमिनाथस्य शिष्यप्रशिष्यक्रमेण अष्टौ पुरुषान् यावद् निर्वाणं गतवन्तो न परत इति, तथा पर्यायापेक्षयाऽप्यन्तकरभूमिः प्रसङ्गादुच्यते- दुवास त्ति द्विवर्षमात्रे केवलिपर्याये नेमिनाथस्य जाते सति साधवो भवान्तमकार्षुरिति । १. सू० ५६५ ॥ २. “राजदन्तादिषु परम्'- पा० २।२।३१ ॥ ३. दुवासे त्ति जे१ खं० ॥ 25 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001029
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 03
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2004
Total Pages588
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy