________________
७४०
आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे [सू० ६२२] समणेणं भगवता महावीरेणं अट्ठ रायाणो मुंडा भवेत्ता अगारातो अणगारितं पव्वाविता, तंजहावीरंगते वीरजसे संजय एणिज्जते य रायरिसी ।
सेय सिवे उद्दायणे संखे कासीवद्धणे ॥१५॥ 5 [टी०] तीर्थकरवक्तव्यताधिकारादिदमाह- समणेणमित्यादि सुगमम्, नवरं भवित्त त्ति अन्तर्भूतकारितार्थत्वात् मुण्डान् भावयित्वेति दृश्यम्, वीरंगते इत्यादि, तह संखे कासिवद्धणए इत्येवं चतुर्थपादे सति गाथा भवति, न चैवं दृश्यते पुस्तकेष्विति, एते च यथा प्रव्राजितास्तथोच्यते, तत्र वीराङ्गको वीरयशा: संजय इत्येते अप्रतीता: ।
एणेयको गोत्रत:, स च केतक्यर्द्धजनपदश्वेतवीनगरीराजस्य प्रदेशिनाम्न: श्रमणोपासकस्य 10 निजकः कश्चिद्राजर्षिः ।। ___ तथा सेय आमलकल्पानगर्याः स्वामी, यस्यां हि सूर्यकाभो देव: सौधर्मात् देवलोकाद् भगवतो महावीरस्य वन्दनार्थमवततार नाट्यविधिं चोपदर्शयामास, यत्र च प्रदेशिराजचरितं भगवता प्रत्यपादीति ।
तथा शिव: हस्तिनागपुरराजः, यो ह्येकदा चिन्तयामास- अहमनुदिनं हिरण्यादिना 15 वृद्धिमुपगच्छामि यतस्ततोऽस्ति पुराकृतकर्मणां फलमतोऽधुनापि तदर्थमुद्यच्छामीति, ततो व्यवस्थाप्य राज्ये पुत्रं कृत्वोचितमखिलकर्त्तव्यं दिक्प्रोक्षकतापसतया प्रवव्राज, तत: षष्ठंषष्ठेन तपस्यतस्तथोचितमातापयत: परिशटितपत्रादिना पारयतो विभङ्गज्ञानमुत्पेदे, तेन च विलोकयाञ्चकार सप्त द्वीपान् सप्त समुद्रानिति, उत्पन्नं च मे दिव्यज्ञानमित्य
वष्टम्भादागत्य नगरे बहुजनस्य यथोपलब्धं तत्त्वमुपदिदेश, तदा च तत्र भगवान् विजहार 20 गौतमश्च भिक्षां भ्राम्यन् जनाच्छिवप्ररूपणां शुश्राव, गत्वा च भगवन्तं पप्रच्छ,
भगवांस्त्वसङ्ख्येयान् द्वीप-समुद्रान् प्रज्ञापयामास, भगवद्वचनं च जनात् श्रुत्वा शिवः शङ्कित:, ततस्तस्य विभङ्ग: प्रतिपपात, ततोऽसौ भगवति जातभक्तिर्भगवत्समीपं जगाम, भगवता प्रकटिताकूतो जातसर्वज्ञप्रत्यय: प्रवव्राज, एकादश चाङ्गानि पपाठ सिद्धश्चेति।
तथा उदायन: सिन्धु-सौवीरादीनां षोडशानां जनपदानां वीतभयप्रमुखानां त्रयाणां 25 त्रिषष्ट्यधिकानां नगरशतानां दशानां च मुकुटबद्धानां राज्ञां स्वामी श्रमणोपासकः, येन
१. वीरंगए खं० पा० जे२ ॥ ३. सेये पासं० जे२ ॥ ३. आमलककल्पा' जे१ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org