SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे विभाव्यते न स्थितः सूक्ष्मत्वादिति १, पनकसूक्ष्मं पनक: उल्ली, स च प्राय: प्रावृट्काले भूमि - काष्ठादिषु पञ्चवर्णस्तद्रव्यलीनो भवति, स एव सूक्ष्ममिति, एवं सर्वत्र २, तथा बीजसूक्ष्मं शाल्यादिबीजस्य मुखमूले कणिका लोके या तुषमुखमित्युच्यते ३, हरितसूक्ष्मम् अत्यन्ताभिनवोद्भिन्नं पृथिवीसमानवर्णं हरितमेवेति ४, पुष्पसूक्ष्मं 5 वटोदुम्बराणां पुष्पाणि तानि तद्वर्णानि सूक्ष्माणीति न लक्ष्यन्ते ५, अण्डसूक्ष्मं मक्षिकाकीटिका-गृहकोकिला-ब्राह्मणी - कृकलासाद्यण्डकमिति ६, लयनसूक्ष्मं लयनम् आश्रयः सत्त्वानाम्, तच्च कीटिकानगरकादि, तत्र कीटिकाश्चान्ये च सूक्ष्माः सत्त्वा भवन्तीति स्नेहसूक्ष्ममवश्याय-हिम-महिका - करक - हरतनुरूपमिति ८ । ७, [सू० ६१७] भरहस्स णं रन्नो चाउरंतचक्कवट्टिस्स अट्ठ पुरिसजुगाई अणुबद्धं 10 सिद्धाई जाव सव्वदुक्खप्पहीणाई, तंजहा- आदिच्चजसे, महाजसे, अतिबले, महाबले, तेतवीरिते, कत्तवीरिते, दंडवीरिते, जलवीरिते । [ टी०] अनन्तरोक्तसूक्ष्मविषयसंयममासेव्य ये अष्टकतया सिद्धास्तानाह भरहस्सेत्यादि कण्ठ्यम्, किन्तु पुरिसजुगाई ति पुरुषा युगानीव कालविशेषा इव क्रमवृत्तित्वात् पुरुषयुगानि, अनुबद्धं सन्ततम् यावत्करणात् 'बुद्धाइं मुक्काई 15 परिनिव्वुडाई 'ति, एतेषां चाऽऽदित्ययशः प्रभृतीनामिहोक्तक्रमस्यान्यथात्वमप्युपलभ्यते, तथाहि 20 ७३८ राया आइच्चजसे महाजसे अइबले अ बलभद्दे । बलविरिय कत्तविरिए जलविरिए दंडविरिए य || [ आव० नि० ३६३ ] इति । इह चान्यथात्वमेकस्यापि नामान्तरभावाद् गाथानुलोम्याच्च सम्भाव्यत इति । [सू० ६१८] पासस्स णं अरहओ पुरिसादाणितस्स अट्ठ गणा अट्ठ गणधरा होत्था, तंजहा - सुभे, अज्जघोसे, वसिट्टे, बंभचारी, सोमे, सिरिधरे, वीरिते, भद्दजसे । [टी०] संयमवदधिकारात् संयमवतामेवाष्टकान्तरमाह - पासेत्यादि व्यक्तम्, किन्तु पुरिसादाणीयस्स त्ति पुरुषाणां मध्ये आदीयत इत्यादानीय उपादेय इत्यर्थः, गणा एकक्रिया-वाचनानां साधूनां समुदायाः, गणधराः तन्नायका आचार्याः भगवतः १. 'त्वात् पनक जे१ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001029
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 03
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2004
Total Pages588
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy