________________
७३६
आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे कायचिकित्सा, तत्तन्त्रं हि मध्याह्नसमाश्रितानां ज्वरा-ऽतीसार-रक्तशोषोन्मादप्रमेह-कुष्ठादीनां शमनार्थमिति २, शलाकाया: कर्म शालाक्यम्, तत्प्रतिपादकं तन्त्रं शालाक्यम्, तद्धि उर्ध्वजत्रुगतानां रोगाणां श्रवण-वदन-नयन-घ्राणादिसंश्रितानामुपशमनार्थमिति ३, शल्यस्य हत्या हननमुद्धारः शल्यहत्या, तत्प्रतिपादकं तन्त्रमपि 5 शल्यहत्येत्युच्यते, तद्धि विविधतृण-काष्ठ-पाषाण-पांशु-लोह-लोष्ठाऽस्थि-नखप्रायाऽङ्गान्तर्गतशल्योद्धरणार्थमिति ४, जङ्गोलीति विषविघाततन्त्रम्, अगदतन्त्रमित्यर्थः, तद्धि सर्प-कीट-लूतादष्टविषविनाशनार्थं विविधविषसंयोगोपशमनार्थं चेति ५, भूतादीनां निग्रहार्थं विद्यातन्त्रं भूतविद्या, सा हि देवा-ऽसुर-गन्धर्व-यक्षरक्ष:-पितृ-पिशाच-नाग-ग्रहाद्युपसृष्टचेतसां शान्तिकर्म-बलिकरणादिग्रहोपशमनार्थेति 10 ६, क्षारतन्त्रमिति क्षरणं क्षार: शुक्रस्य, तद्विषयं तन्त्रं यत् तत्तथा, इदं हि सुश्रुतादिषु
वाजीकरणतन्त्रमुच्यते, अवाजिनो वाजीकरणं रेतोवृद्ध्या अश्वस्येव करणमित्यनयो: शब्दार्थः सम एवेति, तत् तन्त्रं हि अल्प-क्षीण-विशुष्करेतसामाप्यायनप्रसादोपजनननिमित्तं प्रहर्षजननार्थमिति ७, रस: अमृतरसः, तस्याऽयनं प्राप्ति: रसायनम्, तद्धि वय:स्थापनमायुर्मेधाकरणं रोगापहरणसमर्थं च, तत्प्रतिपादकं शास्त्रं 15 रसायनतन्त्रमिति ॥
[सू० ६१२] सक्कस्स णं देविंदस्स देवरन्नो अट्ठऽग्गमहिसीतो पन्नत्ताओ, तंजहा-पउमा, सिवा, सूती, अंजू, अमला, अच्छरा, णवमिया, रोहिणी १॥
ईसाणस्स णं देविंदस्स देवरन्नो अट्ठऽग्गमहिसीओ पन्नत्ताओ, तंजहाकण्हा, कण्हराती, रामा, रामरक्खिता, वसू, वसुगुत्ता, वसुमित्ता, वसुंधरा २॥ 20 सक्कस्स णं देविंदस्स देवरन्नो सोमस्स महारणो अट्ठऽग्गमहिसीओ पन्नत्ताओ३।
ईसाणस्स णं देविंदस्स देवरण्णो वेसमणस्स महारन्नो अट्ठऽग्गमहिसीओ पन्नत्ताओ ४ ।
[सू० ६१३] अट्ठ महग्गहा पन्नत्ता, तंजहा-चंदे, सूरे, सुक्के, बुधे, बहस्सती, १. एतद्धि पा० जे२ ॥ २. “जत्रु सन्धिरुरोंसगः"- अभि० चिन्ता० ५८७ ॥ ३. तद्विविध पा० जे२ ॥
४. विषविनाशार्थं खं० । विषनाशनार्थं पा० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org