________________
७३५
[सू० ६१०-६११]
अष्टममध्ययनम् अष्टस्थानकम् । सप्तमी, विषयोपलक्षणत्वाच्चास्य काले भावे च क्रियाविशेषणे, तत्र सन्निधाने तद्भक्तमिह पात्रे, तत् सप्तच्छदवनमिह शरदि पुष्प्यति, पुष्पनक्रिया शरदा विशेषिता, तत् कुटुम्बकमिह गवि दुह्यमानायां गतम्, इह गमनक्रिया गोदोहनभावेन विशेषितेति ७ । अष्टम्यामन्त्रणी भवेदिति, सु औ जसिति, प्रथमाऽपीयं विभक्तिरामन्त्रणलक्षणस्यार्थस्य कर्म-करणादिवत् लिङ्गार्थमात्रातिरिक्तस्य प्रतिपादकत्वेनाष्टम्युक्ता, यथा हे युवन्निति श्लोकद्वयार्थः ८। 5 उदाहरणगाथास्तु व्याख्यातानुसारेण भावनीयाः, तत्थ गाहा, तइया गाहा, इह हंदीत्युपप्रदर्शने, पयाणम्मि त्ति सम्प्रदाने । अवणे गाहा, अवणे त्ति अपनयेत्यर्थः, इदं चाऽनुयोगद्वारानुसारेण व्याख्यातम्, आदर्शेषु तु अमणे इति दृश्यते, तत्र च स्त्र्यामन्त्रणतया गमनीयम्, हे अमनस्के इत्यर्थः । _ [सू० ६१०] अट्ठ ठाणाइं छउमत्थे सव्वभावेणं ण याणति न पासति, 10 तंजहा-धम्मत्थिगातं जाव गंधं, वातं ।
एताणि चेव उप्पन्ननाणदंसणधरे जाव गंध, वातं ।।
[टी०] अथ वचनविभक्तियुक्तशास्त्रसंस्कारात् किं छद्मस्था: साक्षाददृश्यार्थान् विदन्ति ?, उच्यते, नेत्याह- अट्ठ ठाणेत्यादि व्याख्यातं प्राक्, नवरं यावत्करणात् 'अधम्मत्थिकायं २, आगासत्थिकायं ३, जीवमसरीरपडिबद्धं ४, परमाणुपोग्गलं ५, 15 सद्द ६' मिति द्रष्टव्यमिति, एतान्येव जिनो जानातीत्याह- एयाणीत्यादि सुगमम् ।
[सू० ६११] अट्ठविधे आउव्वेदे पन्नत्ते, तंजहा-कुमारभिच्चे, कायचिगिच्छा, सालाती, सल्लहत्ता, जंगोली, भूतवेजा, खारतंते, रसातणे ।
[टी०] यथा धर्मास्तिकायादीन् जिनो जानाति तथाऽऽयुर्वेदमपि जानाति, स चायम्- अट्ठविहे आउव्वेए इत्यादि, आयुः जीवितं तद्विदन्ति रक्षितुमनुभवन्ति 20 वोपक्रमरक्षणेन विन्दन्ते वा लभन्ते यथाकालं तेन तस्मात्तस्मिन् वेत्यायुर्वेदः चिकित्साशास्त्रं तदष्टविधम्, तद्यथा- कुमाराणां बालकानां भृतौ पोषणे साधु कुमारभृत्यम्, तद्धि तन्त्रं कुमारभरण-क्षीरदोषसंशोधनार्थं दुष्टस्तन्यनिमित्तानां व्याधीनामुपशमनार्थं चेति १, कायस्य ज्वरादिरोगग्रस्तस्य चिकित्साप्रतिपादकं तन्त्रं १. सू० ४५०, ४७८ ॥ २. "त्याह च एया पा० जे२ ॥ ३. तृतीये परिशिष्टे द्रष्टव्यम् ।। ४. विन्दन्ति पा० जे२ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org