SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ ७३४ आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे हवति पुण सत्तमी तं इमम्मि आधार-काल-भावे त । आमंतणी भवे अट्ठमी उ जह हे जुवाण त्ति ॥१४॥ [टी०] एतानि च शास्त्राणि वचनविभक्तियोगेनाभिधेयप्रतिपादकानीति वचनविभक्तिस्वरूपमाह- अट्ठविहा वयणविभत्तीत्यादि, उच्यते एकत्व-द्वित्व5 बहुत्वलक्षणोऽर्थो यैस्तानि वचनानि, विभज्यते कर्तृत्व-कर्मत्वादिलक्षणोऽर्थो यया सा विभक्तिः, वचनात्मिका विभक्तिर्वचनविभक्तिः, सु औ जस् [पा० ४।१।२] इत्यादि। निद्देसे सिलोगो, निर्देशनं निर्देश: कर्मादिकारकशक्तिभिरनधिकस्य लिङ्गार्थमात्रस्य प्रतिपादनम्, तत्र प्रथमा भवति, यथा स वा अयं वाऽऽस्ते अहं वा आसे १ । तथा उपदिश्यत इत्युपदेशनम् उपदेशक्रियाया यद् व्याप्यम्, उपलक्षणत्वादस्य 10 क्रियाया यद् व्याप्यं कर्मेत्यर्थः, तत्र द्वितीया, यथा भण इमं श्लोकम्, कुरु वा तं घटम्, ददाति तम्, याति ग्रामम् २। तथा क्रियते येन तत् करणं क्रियां प्रति साधकतमम्, करोतीति वा करण: कर्ता कृत्यल्युटो बहुलम् [पा० ३।३।११३] इति वचनादिति, तत्र करणे तृतीया कृता विहिता, यथा नीतं सस्यं तेन शकटेन, कृतं कुण्डं मयेति ३। तथा संपदावणे त्ति सत्कृत्य प्रदाप्यते यस्मै उपलक्षणत्वात् सम्प्रदीयते वा यस्मै स 15 सम्प्रदापनं सम्प्रदानं वा, तत्र चतुर्थी, यथा भिक्षवे भिक्षां दापयति ददाति वेति, सम्प्रदापनस्योपलक्षणत्वादेव नम:-स्वस्ति-स्वाहा-स्वधा-ऽलं-वषड्युक्ताच्च चतुर्थी भवति, नम: शाखायै वैरादिकायै, नम:प्रभृतियोगोऽपि कैश्चित् सम्प्रदानमभ्युपगम्यते इति ४ । पंचमी य श्लोकः, अपादीयते अपायतो विश्लेषत आ मर्यादया दीयते दो अवखण्डने [पा० धा० ११४८] इति वचनात् खण्ड्यते भिद्यते आदीयते वा गृह्यते 20 यस्मात्तदपादानमवधिमात्रमित्यर्थः, तत्र पञ्चमी भवति, यथा अपनय ततो गृहाद्धान्यमितो वा कुशूलाद् गृहाणेति ५। छट्ठी सस्सामिवायणे त्ति स्वं च स्वामी च स्वस्वामिनौ तयोर्वचनं प्रतिपादनम्, तत्र स्वस्वामिवचने, स्वस्वामिसम्बन्धे इत्यर्थः, षष्ठी भवति, यथा तस्यास्य वा गतस्य वाऽयं भृत्यः, वायणे त्तीह प्राकृतत्वाद् दीर्घत्वम् ६ । सन्निधीयते क्रिया अस्मिन्निति सन्निधानम् आधारः, तदेवार्थः सन्निधानार्थः, तत्र १. विहीत्यादि जे१ ।। २. सि जे१,२ । “स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्" पा० ४।१।२ ॥ ३. क्रियाया व्याप्य' जे१ विना ॥ ४. कुसूलाद् पा० जे१ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001029
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 03
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2004
Total Pages588
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy