________________
आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे
'उत्सन्नभव्यकं भविष्यति भुवन' मित्यभ्युपगमात् मितं वा जीवम् अङ्गुष्ठपर्वमात्रं श्यामाकतन्दुलमात्रं वा वदति न त्वपरिमितमसङ्ख्येयप्रदेशात्मकया अङ्गुलासङ्ख्येयभागादारभ्य यावल्लोकमापूरयतीत्येवमनियतप्रमाणतया वा, अथवा मितं सप्तद्वीपसमुद्रात्मकतया लोकं वदत्यन्यथाभूतमपीति मितवादीति, तस्याप्यक्रियावादित्वं 5 वस्तुतत्त्वनिषेधनादेवेति ३ । तथा निर्मितम् ईश्वर-ब्रह्म- पुरुषादिना कृतं लोकं वदतीति निर्म्मितवादी, तथा चाहु:
आसीदिदं तमोभूतमप्रज्ञातमलक्षणम् ।
अप्रतर्क्यमविज्ञेयं प्रसुप्तमिव सर्वतः ॥ [ मनुस्मृ० ११५ ] तस्मिन्नेकार्णवीभूते नष्टस्थावरजङ्गमे ।
10
नष्टामरनरे चैव प्रणष्टोरगराक्षसे ॥ केवलं गह्वरीभूते महाभूतविवर्जिते । अचिन्त्यात्मा विभुस्तत्र शयानस्तप्यते तपः ॥ तत्र तस्य शयानस्य नाभेः पद्मं विनिर्गतम् । तरुणरविमण्डलनिभं हृद्यं काञ्चनकर्णिकम् ॥ तस्मिन् पद्मे तु भगवान् दण्डी यज्ञोपवीतसंयुक्तः । ब्रह्मा तत्रोत्पन्नस्तेन जगन्मातर: सृष्टाः ॥ अदितिः सुरसङ्घानां दितिरसुराणां मनुर्मनुष्याणाम् । विनता विहङ्गमानां माता विश्वप्रकाराणाम् ।
] इति ।
कद्रुः सरीसृपाणां सुलसा माता तु नागजातीनाम् । सुरभिश्चतुष्पदानामिला पुनः सर्वबीजानाम् ॥ [ प्रमाणयति चासौ — बुद्धिमत्कारणकृतं भुवनं संस्थानत्वात् घटवदित्यादि । अक्रियावादिता चास्य न कदाचिदनीदृशं जगत् [ ] इति वचनादकृत्रिमभुवनस्याकृत्रिमतानिषेधात् न चेश्वरादिकर्तृकत्वं जगतोऽस्ति, कुलालादिकारकवैयर्थ्यप्रसङ्गात् कुलालादिवच्चेश्वरादेर्बुद्धिमत्कारणस्यानीश्वरताप्रसङ्गात्, किञ्च, 25 ईश्वरस्याशरीरतया कारणाभावात् क्रियास्वप्रवृत्तिः स्यात्, सशरीरत्वे च तच्छरीरस्यापि कर्त्रन्तरेण भाव्यम्, एवं चानवस्थाप्रसङ्ग इति ४ । तथा सातं सुखमभ्यसनीयमिति
१. सर्वजीवानां जे१ ॥
15
७३०
20
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org