________________
अष्टममध्ययनम् अष्टस्थानकम् ।
[सू० ६०७]
अपरस्त्वात्मैवास्ति नान्यदिति प्रतिपन्नः, तदुक्तम्पुरुष एवेदं ग्निं सर्वं यद्भूतं यच्च भाव्यम् । उतामृतत्वस्येशानो यदन्नेनातिरोहति ॥ [शुक्लयजु० ३१।२] यदेजति यन्नैजति यह्रे यदु अन्तिके । यदन्तरस्य सर्वस्य यदु सर्वस्यास्य बाह्यतः ॥ [ईशावास्य० ५] इति। तथानित्यज्ञानविवर्तोऽयं क्षिति-तेजो-जलादिकः । आत्मा तदात्मकश्चेति सङ्गिरन्ते परे पुनः ॥ [ ] इति ।। शब्दाद्वैतवादी तु सर्वं शब्दात्मकमिदमित्येकत्वं प्रतिपन्न:, उक्तं चअनादिनिधनं ब्रह्म शब्दतत्त्वं यदक्षरम् । विवर्त्ततेऽर्थभावेन प्रक्रिया जगतो यत: ॥ [वाक्यप० १११] इति ।
अथवा सामान्यवादी सर्वमेवैकं प्रतिपद्यते, सामान्यस्यैकत्वादित्येवमनेकधैकवादी, अक्रियावादिता चास्य सद्भूतस्यापि तदन्यस्य नास्तीति प्रतिपादनात् आत्माद्वैत-पुरुषाद्वैतशब्दाद्वैतादीनां युक्तिभिरघटमानानामस्तित्वाभ्युपगमाच्च, एवमुत्तरत्रापीति १ । तथा सत्यपि कथञ्चिदेकत्वे भावानां सर्वथा अनेकत्वं वदतीत्यनेकवादी, परस्परविलक्षणा 15 एव भावास्तथैव प्रमीयमाणत्वात्, यथा रूपं रूपतयेति, अभेदे तु भावानां जीवाजीवबद्धमुक्त-सुखितदुःखितादीनामेकत्वप्रसङ्गात् दीक्षादिवैयर्थ्य मिति । किञ्च, सामान्यमङ्गीकृत्यैकत्वं विवक्षितं परैः, सामान्यं च भेदेभ्यो भिन्नाभिन्नतया चिन्त्यमानं न युज्यते, एवमवयवेभ्योऽवयवी धर्मेभ्यश्च धर्मीत्येवमनेकवादी, अस्याप्यक्रियावादित्वं सामान्यादिरूपतयैकत्वे सत्यपि भावानां सामान्यादिनिषेधेन तन्निषेधनादिति, न च 20 सामान्यं सर्वथा नास्ति, अभिन्नज्ञाना-ऽभिधानाभावप्रसङ्गात्, सर्वथा वैलक्षण्ये चैकपरमाणुमन्तरेण सर्वेषामपरमाणुत्वप्रसङ्गात्, तथा अवयविनं धर्मिणं च विना न प्रतिनियतावयव-धर्मव्यवस्था स्याद्, भेदाभेदविकल्पदूषणं च कथञ्चिद्वादाभ्युपगमनेन निरवकाशमिति २ । तथा अनन्तानन्तत्वेऽपि जीवानां मितान् परिमितान् वदति १. दृश्यतां द्वादशारे नयचक्रे पृ० १३६ पं० ८ तथा तट्टिप्पने ॥ २. यद्वन्तिके खं० पा० जे२ । यद्वान्तिके
जे१ ॥ ३. यत् सर्वस्यास्य जे१ खं० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org