________________
[सू० ६०७ ]
अष्टममध्ययनम् अष्टस्थानकम् ।
वदतीति सातवादी, तथाहि-- भवत्येवंवादी कश्चित् सुखमेवानुशीलनीयं सुखार्थिना, न त्वसातरूपं तपो-नियम - ब्रह्मचर्यादि, कारणानुरूपत्वात् कार्यस्य, नहि शुक्लैस्तन्तुभिरारब्धः पटो रक्तो भवति अपि तु शुक्ल एव, एवं सुखासेवनात् सुखमेवेति, उक्तं च
७३१
मृद्वी शय्या प्रातरुत्थाय पेया भक्तं मध्ये पानकं चापराह्णे ।
द्राक्षाखण्डं शर्करा चार्द्धरात्रे मोक्षश्चान्ते शाक्यपुत्रेण दृष्टः ॥ [ 1
अक्रियावादिता चास्य संयम - तपसो : पारमार्थिक प्रशमसुखरूपयो: दुःखत्वेनाभ्युपगमात् कारणानुरूपकार्याभ्युपगमस्य च विषयसुखादननुरूपस्य निर्वाणसुखस्याभ्युपगमेन बाधितत्वादिति ५ । तथा समुच्छेदं प्रतिक्षणं निरन्वयनाशं वदति यः स समुच्छेदवादी, तथाहि - वस्तुनः सत्त्वं कार्यकारित्वम्, कार्याकारिणोऽपि 10 वस्तुत्वे खरविषाणस्यापि सत्त्वप्रसङ्गात्, कार्यं च नित्यं वस्तु क्रमेण न करोति, नित्यस्यैकस्वभावतया कालान्तरभाविसकलकार्यभावप्रसङ्गात्, न चेदेवं प्रतिक्षणं स्वभावान्तरोत्पत्त्या नित्यत्वहानिरिति, यौगपद्येनापि न करोति अध्यक्षसिद्धत्वाद्यौगपद्याकरणस्य, तस्मात् क्षणिकमेव वस्तु कार्यं करोतीति, एवं च अर्थक्रियाकारित्वात् क्षणिकं वस्त्विति, अक्रियावादी चायमित्थमवसेयःनिरन्वयनाशाभ्युपगमे हि परलोकाभाव: प्रसजति, फलार्थिनां च क्रियास्वप्रवृत्तिरिति, तथा सकलक्रियासु प्रवर्त्तकस्यासङ्ख्येयसमयसम्भव्यनेकवर्णोल्लेखवतो विकल्पस्य प्रतिसमयक्षयित्वे एकाभिसन्धिप्रत्ययाभावात् सकलव्यवहारोच्छेदः स्यात्, अत एवैकान्तक्षणिकात् कुलालादेः सकाशादर्थक्रिया न घटत इति, तस्मात् पर्यायतो वस्तु समुच्छेदवद् द्रव्यतस्तु न तथेति ६ । तथा नियतं नित्यं वस्तु वदति यः स तथा, तथाहि— नित्यो लोकः, आविर्भाव - तिरोभावमात्रत्वादुत्पाद-विनाशयोः, तथा असतोऽनुत्पादाच्छशविषाणस्येव सतश्चाविनाशात् घटवत्, नहि सर्वथा घटो विनष्टः, कपालाद्यवस्थाभिस्तस्य परिणतत्वात् तासां चापारमार्थिकत्वात्, मृत्सामान्यस्यैव पारमार्थिकत्वात्, तस्य चाविनष्टत्वादिति, अक्रियावादी चायमेकान्तनित्यस्य स्थिरैकरूपतया सकलक्रियाविलोपाभ्युपगमादिति ७ । तथा नसंति - परलोगवाइ त्ति 25
20
Jain Education International
For Private & Personal Use Only
5
15
www.jainelibrary.org