________________
७२७
[सू० ६०४-६०५]
अष्टममध्ययनम् अष्टस्थानकम् । सम्यगनालोचयन्तं सर्वं यथा सम्यगालोचयति तथा करोतीत्यपव्रीडकः, अभिहितं चववहारव ववहारं आगममाई उ मुणइ पंचविहं। ओवीलुवगृहंतं जह आलोएइ तं सव्वं ॥ [ ] ति । पकुव्वए त्ति आलोचिते सति य: शुद्धिं प्रकर्षण कारयति स प्रकारीति, भणितं च- आलोइयम्मि सोहिं जो कारावेइ सो पकुव्वीओ ॥ [ ] इति । 5
अपरिस्साइ त्ति न परिश्रवति नालोचकदोषानुपश्रुत्यान्यस्मै प्रतिपादयति य एवंशील: सोऽपरिश्रीवीति, यदाह- जो अन्नस्स उ दोसे न कहेई अपरिसाई सो होइ ॥ [ ] इति। निजवए त्ति निर्यापयति तथा करोति यथा गुर्वपि प्रायश्चित्तं शिष्यो निर्वाहयतीति निर्यापक इति, न्यगादि च– निजवओ तह कुणई निव्वहई जेण पच्छित्तं [ ] ति । अवायदंसि त्ति अपायान् अनर्थान् शिष्यचित्तभङ्गा-ऽनिर्वाहादीन् दुर्भिक्ष- 10 दौर्बल्यादिकृतान् पश्यतीत्येवंशील:, सम्यगनालोचनायां वा दुर्लभबोधिकत्वादीन् अपायान् शिष्यस्य दर्शयतीति अपायदर्शीति, भणितं च
दुब्भिक्खदुब्बलाई इहलोए जाणए अवाए उ । दंसेइ य परलोए दुल्लहबोहि त्ति संसारे ॥ [ ] इति ।
अत्तदोसं ति आत्मापराधमिति, जाति-कुले माता-पितृपक्षौ, तत्सम्पन्न: 15 प्रायोऽकृत्यं न करोति, कृत्वापि पश्चात्तापादालोचयतीति तद्ग्रहणम्, यदाह
जाई-कुलसंपन्नो पायमकिच्चं न सेवई किंचि । आसेविउं च पच्छा तग्गुणओ सम्ममालोए ॥ [ ] इति । विनयसम्पन्न: सुखेनैवालोचयति, तथा ज्ञानसम्पन्नो दोषविपाकं प्रायश्चित्तं चाऽवगच्छति, यतोऽवाचि
__20 नाणेण उ संपन्नो दोसविवागं वियाणिउं घोरं । आलोएइ सुहं चिय पायच्छित्तं च अवगच्छे ॥ [ ] इति । दर्शनसम्पन्न: शुद्धोऽहमित्येवं श्रद्धत्ते, चारित्रसम्पन्नो भूयस्तमपराधं न करोति सम्यगालोचयति प्रायश्चित्तं च निर्वाहयतीति, उक्तं च१. सव' जे१ ।। २. स्रावी जे१ ॥ ३. वये त्ति जे१ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org