SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ ७२६ आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे सम्यगितिः प्रवृत्ति: समिति:, ईर्यायां गमने समितिश्चक्षुर्व्यापारपूर्वतयेतीर्यासमितिः, एवं भाषायां निरवद्यभाषणत:, एषणायामुद्गमादिदोषवर्जनतः, आदाने ग्रहणे भाण्डमात्राया उपकरणमात्रायाः, भाण्डस्य वा वस्त्राद्युपकरणस्य मृन्मयादिपात्रस्य वा मात्रस्य च साधुभाजनविशेषस्य, निक्षेपणायां च समिति: सुप्रत्युपेक्षितसुप्रमार्जित5 क्रमेणेति, उच्चार-प्रश्रवण-खेल-सिवान-जल्लानां परिष्ठापनिकायां समिति: स्थण्डिल शुद्धयादिक्रमेण, खेलो निष्ठीवनम्, सिंघानो नासिकाश्लेष्मेति, मनस: कुशलतायां समितिः, वाचोऽकुशलत्वनिरोधे समितिः, कायस्य स्थानादिषु समितिरिति । [सू० ६०४] अट्ठहिं ठाणेहिं संपन्ने अणगारे अरिहति आलोतणं पडिच्छित्तते, तंजहा-आयारवं, आहारवं, ववहारवं, ओवीलए, पकुव्वते, अपरिस्साती, 10 निजवते, अवातदंसी १॥ __ अट्ठहिं ठाणेहिं संपन्ने अणगारे अरिहति अत्तदोसमालोएत्तए, तंजहाजातिसंपन्ने, कुलसंपन्ने, विणयसंपन्ने, णामसंपन्ने, दंसणसंपन्ने, चरित्तसंपन्ने, खंते, दंते २। [सू० ६०५] अट्ठविहे पायच्छिते पन्नत्ते, तंजहा-आलोयणारिहे, 15 पडिक्कमणारिहे, तदुभयारिहे, विवेगारिहे, विउस्सगारिहे, तवारिहे, छेदारिहे, मूलारिहे ३। [टी०] समितिष्वतिचारादावालोचना देयेत्यालोचनाचार्यस्यालोचकसाधो: प्रायश्चित्तस्य च स्वरूपाभिधानाय सूत्रत्रयमाह- अट्टहीत्यादि सुगमम्, नवरम् आयारवं ति ज्ञानादिपञ्चप्रकाराचारवान् ज्ञाना-ऽऽसेवनाभ्याम्, आहारवं ति अवधारणावान् 20 आलोचकेनालोच्यमानानामतीचाराणामिति, आह च आयरवमायारं पंचविहं मुणइ जो य आयरइ । आहारवमवहारे आलोएंतस्स तं सव्वं ॥ [ ] ति । ववहारवं ति आगम-श्रुता-ऽऽज्ञा-धारणा-जीतलक्षणानां पञ्चानामुक्तरूपाणां व्यवहाराणां ज्ञातेति, ओवीलए त्ति अपव्रीडयति विलज्जीकरोति यो लज्जया १. भांडस्य मात्राया जे१ ॥ २. "मात्रायां खं० ॥ ३. तुलना- भगवती० २५।७।१९२-१९३ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001029
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 03
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2004
Total Pages588
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy