________________
[सू० ६०२-६०३]
अष्टममध्ययनम् अष्टस्थानकम् ।
७२५ ४ । शरीरसम्पच्चतु , तद्यथा- आरोहपरिणाहयुक्तता, उचितदैर्घ्यविस्तरतेत्यर्थः १, अनवत्रप्यता, अलज्जनीयाङ्गतेत्यर्थः २, परिपूर्णेन्द्रियता ३, स्थिरसंहननता चेति ४ । वचनसम्पच्चतु , तद्यथा- आदेयवचनता १, मधुरवचनता २, अनिश्रितवचनता, मध्यस्थवचनतेत्यर्थः ३, असन्दिग्धवचनता चेति ४ । वाचनासम्पच्चतुर्द्धा, तद्यथाविदित्वोद्देशनम् १, विदित्वा समुद्देशनम्, पारिणामिकादिकं शिष्यं ज्ञात्वेत्यर्थ: २, 5 परिनिर्वाप्य वाचना, पूर्वदत्तालापकानधिगमय्य शिष्यं पुनः सूत्रदानमित्यर्थः ३, अर्थनिर्यापणा, अर्थस्य पूर्वापरसाङ्गत्येन गमनिकेत्यर्थ: ४। मतिसम्पच्चतु , अवग्रहेहाऽपाय-धारणाभेदादिति। प्रयोगसम्पच्चतुर्द्धा, इह प्रयोगो वादविषयस्तत्रात्मपरिज्ञानं वादादिसामर्थ्य विषये १, पुरुषपरिज्ञानं किंनयोऽयं वाद्यादिः २, क्षेत्रपरिज्ञानम् ३, वस्तुपरिज्ञानम्, वस्तु त्विह वादकाले राजामात्यादि ४ । सङ्ग्रहपरिज्ञा, सङ्ग्रहः 10 स्वीकरणम्, तत्र परिज्ञा ज्ञानं नाम अभिधानमष्टमी सम्पत्, सा च चतुर्विधा, तद्यथाबालादियोग्यक्षेत्रविषया १, पीठ-फलकादिविषया २, यथासमयं स्वाध्यायभिक्षादिविषया ३, यथोचितविनयविषया चेति ४ ।
[सू० ६०२] एगमेगे णं महानिधी अट्टचक्कवालपतिट्ठाणे अट्ट अट्ट जोयणाई उर्ल्डउच्चत्तेणं पन्नत्ते ।
15 [सू० ६०३] अट्ठ समितीतो पन्नत्ताओ, तंजहा-इरियासमिती, भासासमिती, एसणासमिती, आयाणभंड[मत्तनिक्खेवणासमिती], उच्चार-पा[सवणखेल-सिंघाणग[-जल्लपरिट्ठावणियासमिती] मणस [मिती] वतिस[मिती] कायसमिती ।
[टी०] आचार्या हि गुणरत्ननिधानमिति निधानप्रस्तावान्निधिव्यतिकरमाह- एकेत्यादि, 20 एकैको महानिधिश्चक्रवर्तिसम्बन्धी अष्टचक्रवालप्रतिष्ठान: अष्टचक्रप्रतिष्ठितः, मञ्जूषावत्, तत्स्वरूपं चेदम्नवजोयणवित्थिन्ना बारसदीहा समूसिया अट्ठ । जक्खसहस्सपरिवुडा चक्कट्ठपइट्ठिया नव वि ॥ [ ]
द्रव्यनिधानवक्तव्यतोक्ता, भावनिधानभूतसमितिस्वरूपमाह- अट्ट समिईत्यादि, 25 १. 'त्रपता खं० ॥ २. परि खं० ॥ ३. “दिशिष्यं जे१ खं०॥ ४. सू० ७११ ॥ ५. बारहदीहा जे१॥
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org