________________
७२४
आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे [टी०] अनन्तरं कायासंवर उक्तः, कायश्चाष्टस्पर्शो भवतीति स्पर्शसूत्रं कण्ठ्यं चेति। [सू० ६००] अट्ठविधा लोगट्टिती पन्नत्ता, तंजहा-आगासपतिहिते वाते, वातपतिट्ठिते उदही, एवं जधा छट्ठाणे जाव जीवा कम्मपतिट्टिता, अजीवा जीवसंगहिता, जीवा कम्मसंगहिता । 5 [टी०] स्पर्शाश्चाष्टावेवेति लोकस्थितिरियमतो लोकस्थितिविशेषमाह- अट्टविहेत्यादि
कण्ठ्यम्, एवं जहा छट्ठाणे, तत्र चैवम्- उदधिपइट्ठिया पुहवी, घनोदधावित्यर्थ: ३, पुढविपइट्ठिया तसा थावरा पाणा, मनुष्यादय इत्यर्थः ४, अजीवा जीवपइट्ठिया, शरीरादिपुद्गला इत्यर्थ: ५, जीवा कम्मपइट्ठिया, कर्मवशवर्तित्वादिति ६, अजीवा:
पुद्गलाकाशादयो जीवैः सगृहीताः स्वीकृता:, अजीवान् विना जीवानां सर्वव्यवहारा10 भावात् ७, जीवाः कर्मभि: ज्ञानावरणादिभिः सगृहीता बद्धा: ८, षष्ठपदे जीवोपग्राहकत्वेन कर्मण आधारता विवक्षितेह तु तस्यैव जीवबन्धनतेति विशेषः ।
[सू० ६०१] अट्ठविधा गणिसंपता पन्नत्ता, तंजहा-आचारसंपता, सुयसंपता, सरीरसंपता, वतणसंपता, वातणासंपता, मतिसंपता, पतोगसंपता,
संगहपरिण्णा णाम अट्ठमा । 15 टी०] इदं च लोकस्थित्यादि स्वसम्पदुपेतगणिवचनात् ज्ञायत इति गणिसम्पदमाह
अट्ठविहा गणिसंपयेत्यादि, गण: समुदायो भूयानतिशयवान् वा गुणानां साधूनां वा यस्यास्ति स गणी आचार्यस्तस्य सम्पत् समृद्धिर्भावरूपा गणिसम्पत्, तत्राचरणमाचारः अनुष्ठानं स एव सम्पत् विभूतिस्तस्य वा सम्पत् सम्पत्ति: प्राप्ति: आचारसम्पत्, सा च चतुर्द्धा, तद्यथा- संयमध्रुवयोगयुक्तता, चरणे नित्यं समाध्युपयुक्ततेत्यर्थः १, 20 असंप्रग्रहः, आत्मनो जात्याधुत्सेकरूपग्राहवर्जनमिति भावः २, अनियतवृत्तिः,
अनियतविहार इति योऽर्थः ३, वृद्धशीलता, वपुर्मनसो निर्विकारतेति यावत् ४ एवं श्रुतसम्पत् । साऽपि चतुर्द्धा, तद्यथा- बहुश्रुतता, युगप्रधानागमतेत्यर्थः १, परिचितसूत्रता २, विचित्रसूत्रता स्वसमयादिभेदात् ३, घोषविशुद्धिकरता च, उदात्तादिविज्ञानादिति
१. सू० ४९८ ॥ २. नतिशयन्वा गुणानां खं० । नतिशयवान् गुणानां जे१ ।। ३. तुलना- व्यवहारभाष्ये
उ० १० गा० ४०८०-४१२४ । प्रवचनसारोद्धारे गा० ५४०-५४८ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org