________________
७२३
[सू० ५९८-५९९]
अष्टममध्ययनम् अष्टस्थानकम् । इदानीं तस्यैव प्रत्याजात्यगर्हितत्वमाह से णमित्यादिना, अड्डाइं ति धनवन्ति यावत्करणात् दित्ताई दीप्तानि प्रसिद्धानि दृप्तानि वा दर्पवन्ति वित्थिन्नविउलभवणसयणासणजाणवाहणाइं तत्र विस्तीर्णानि विस्तारवन्ति विपुलानि बहूनि भवनानि गृहाणि शयनानि पर्यादीनि आसनानि सिंहासनादीनि यानानि रथादीनि वाहनानि च वेगसरादीनि येषु कुलेषु तानि तथा, क्वचिद् वाहणाइन्नाई 5 ति पाठस्तत्र विस्तीर्णविपुलैर्भवनादिभिराकीर्णानि सङ्कीर्णानि युक्तानीत्यर्थः इति व्याख्येयम्, तथा बहुधणबहुजायरूवरयया, बहु धनं गणिम-धरिमादि येषु तानि तथा, बहु जातरूपं च सुवर्णं रजतं च रूप्यं येषु तानि तथा, पश्चात् कर्मधारयः, आयोगपयोगसंपउत्ताई, आयोगेन द्विगुणादिलाभेन द्रव्यस्य प्रयोग: अधमर्णानां दानं तत्र सम्प्रयुक्तानि व्यापृतानि तेन वा संप्रयुक्तानि संगतानि तानि तथा, 10 विच्छड्डियपउरभत्तपाणाई, विच्छदिते त्यक्ते बहुजनभोजनावशेषतया विच्छवती वा विभूतिमती विविधभक्ष्य-भोज्य-चूष्य-लेह्य-पेयाद्याहारभेदयुक्ततया प्रचुरे भक्तपाने येषु तानि तथा, बहुदासीदासगोमहिसगवेलयप्पभूयाई, बहवो दासीदासा येषु तानि तथा, गावो महिष्यश्च प्रतीता:, गवेलका उरभ्रास्ते प्रभूता: प्रचुरा येषु तानि तथा, पश्चात् कर्मधारयः, अथवा बहवो दास्यादय: प्रभूता जाता येषु तानि तथा, 15 बहुजनस्यापरिभूतानि अपरिभवनीयानीत्यर्थः, तृतीयार्थे वा षष्ठी, ततो बहुजनेनाऽपरिभूतानि अतिरस्कृतानि, अजउत्ते त्ति आर्ययो: अपापकर्मवतो: पित्रोः पुत्रो य: स तथा, अनेनाऽऽलोचकस्याऽनालोचकप्रत्याजातिविपर्यय उक्तः । _ [सू० ५९८] अट्ठविधे संवरे पन्नत्ते, तंजहा-सोतिंदियसंवरे जाव फासिंदियसंवरे, मणसंवरे, वतिसंवरे, कायसंवरे ।
20 अट्ठविधे असंवरे पन्नत्ते, तंजहा-सोतिंदियअसंवरे जाव कायअसंवरे । [टी०] कृतालोचनाद्यनुष्ठानाश्च संवरवन्तो भवन्तीति संवरं तद्विपर्यस्तमसंवरं चाहअट्ठविहेत्यादि सूत्रद्वयं कण्ठ्यम् ।
[सू० ५९९] अट्ठ फासा पन्नत्ता, तंजहा-कक्खडे, मउते, गरुते, लहुते, सीते, उसिणे, निद्धे, लुक्खे । १. "मित्यादि अड्डाई जे१ ॥ २. विस्तर जेमू१, पा० जे२ ॥
25
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org