________________
७२२
आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे पुष्पमित्यर्थः अनुलेपनं च श्रीखण्डादिविलेपनं यो धारयति स तथा, भास्वरा दीप्रा बोन्दी शरीरं यस्य स तथा, प्रलम्बा या वनमाला आभरणविशेषस्तां धारयति यः स तथा, दिव्येन स्वर्गसम्बन्धिना प्रधानेनेत्यर्थो वर्णादिना युक्त इति गम्यते, सङ्घातेन
संहननेन वज्रर्षभनाराचलक्षणेन संस्थानेन समचतुरस्रलक्षणेन ऋद्ध्या विमानादिरूपया 5 युक्त्या अन्यान्यभक्तिभिस्तथाविधद्रव्ययोजनेन प्रभया प्रभावन माहात्म्येनेत्यर्थः, छायया प्रतिबिम्बरूपया अर्चिषा शरीरनिर्गततेजोज्वालया तेजसा शरीरस्थकान्त्या लेश्यया अन्त:परिणामरूपया शुक्लादिकया उद्द्योतयमानः स्थूलवस्तूपदर्शनत: प्रभासयमानस्तु सूक्ष्मवस्तूपदर्शनत इति, एकार्थिकत्वेऽपि चैतेषां न दोषः, उत्कर्षप्रतिपादकत्वेना
ऽभिहितत्वादिति, महता प्रधानेन बृहता वा रवेणेति सम्बन्धः, अहतः अनुबद्धो 10 रवस्यैतद्विशेषणं नाट्यं नृत्तं तेन युक्तं गीतं नाट्यगीतं तच्च वादितानि च तानि
शब्दवन्ति कृतानि तन्त्री च वीणा तलौ च हस्तौ तालाश्च कंशिका: तुडिय त्ति तूर्याणि च पटहादीनि वादिततन्त्री-तल-ताल-तूर्याणि तानि च तथा घनो मेघस्तदाकारो यो मृदङ्गो ध्वनिगाम्भीर्यसाधात् स चासौ पटुना दक्षेण प्रवादितश्च य: स
घनमृदङ्गपटुप्रवादित: स चेति द्वन्द्वे तेषां रव: शब्दस्तेन करणभूतेन, अथवा आहय 15 त्ति आख्यानकप्रतिबद्धं यन्नाट्यं तेन युक्तं यद् गीतम्, शेषं तथैव, इह च मृदङ्गग्रहणं
तूर्येषु मध्ये तस्य प्रधानत्वात्, यत उच्यते- मद्दलसाराइं तूराई [ ] ति, भोगार्हा भोगा: शब्दादयो भोगभोगास्तान् भुञ्जान: अनुभवन् विहरति क्रीडति तिष्ठति वेति, भाषामपि च से तस्य भाषमाणस्याऽऽस्तामेको द्वौ वा सौभाग्यातिशयात् यावच्चत्वारः पञ्च
वा देवा अनुक्ता एव केनाप्यप्रेरिता एव भाषणप्रवर्तनाय बहोरपि भाषितस्य 20 स्वबहुमतत्वख्यापनाय चाभ्युत्तिष्ठन्ति, ब्रुवते च बहुमित्यादि, अभिमतमिदं भवदीयं
भाषणमिति हृदयम्, अनेनालोचकस्योपपातागर्हितत्वमुक्तम्, एतद्भणनादिहलोकागर्हितत्वमपि लघुता-ऽऽह्लादाद्यालोचनागुणसद्भावेन वाच्यम्, आलोचनागुणाश्चैते
लहुया ल्हाईजणणं अप्पपरनियत्ति अज्जवं सोही ।
दुक्करकरणं आढा निस्सल्लत्तं च सोहिगुणा ॥ [व्यवहारभा० १।३१७] १. अनुलेपनं श्रीखण्डादिविलेपनं च जे१। अनुलेपनं च श्री खण्डादिविलेपनं च जे२ ॥ २. कंसिकाः
जे१ ॥ ३. °ल्हाइयज' पासं० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org