________________
[सू० ५९७] अष्टममध्ययनम् अष्टस्थानकम् ।
७२१ भवन्ति, तद्यथा- अन्तकुलानि वरुट-छिपकादीनाम्, प्रान्तकुलानि चण्डालादीनाम्, तुच्छकुलानि अल्पमानुषाणि अगम्भीराशयानि वा, दरिद्रकुलानि अनीश्वराणि, कृपणकुलानि तर्कणवृत्तीनि नट-नग्नाचार्यादीनाम्, भिक्षाककुलानि भिक्षणवृत्तीनि तथाविधलिङ्गिकानां च, तथाप्रकारेष्वन्तकुलादिष्वित्यर्थः, प्रत्यायाति प्रत्याजायते वा पुमे त्ति पुमान् । अणिद्वेत्यादि, इष्यते स्म प्रयोजनवशादितीष्टः, कान्त: कान्तियोगात्, 5 प्रिय: प्रेमविषय:, मनोज्ञ: शुभस्वभाव:, मनसा अभ्यते गम्यते सौभाग्यतोऽनुस्मर्यत इति मनोऽमः, एतन्निषेधात् प्रकृतविशेषणानि । तथा हीनस्वरः हस्वस्वरः, तथा दीनो दैन्यवान् पुरुषस्तत्सम्बन्धित्वात् स्वरोऽपि दीन:, स स्वरो यस्य स तथा, अनादेयवचनश्चासौ प्रत्याजातश्चेति, अथवा प्रथमैकवचनलोपादनादेयवचनो भवति प्रत्याजात: सन्निति, शेषं कण्ठ्यं यावद् भासउ त्ति, अनेन प्रत्याजातिगर्हितत्वमुक्तमिति। 10
मायीत्यादिना आलोचकस्येहलोकादिस्थानत्रयागर्हितत्वमुक्तविपर्ययस्वरूपमाह । हारेण विराजितं वक्ष: उरो यस्य स तथा, कटकानि प्रतीतानि तुटितानि बाह्वाभरणविशेषास्तैः स्तम्भितौ स्तब्धीकृतौ भुजौ बाहू यस्य स तथा । अंगदेत्यादि, कर्णावेव पीठे आसने कुण्डलाधारत्वात् कर्णपीठे, मृष्टे घृष्टे गण्डतले च कपोलतटे कर्णपीठे च यकाभ्यां ते मृष्टगण्डतलकर्णपीठे ते च ते कुण्डले चेति विशेषणोत्तरपद: 15 प्राकृतत्वात् कर्मधारयः, अङ्गदे च केयूरे बाह्वाभरणविशेषावित्यर्थः, कुण्डलमृष्टगण्डतलकर्णपीठे च धारयति य: स तथा, अथवा अङ्गदे च कुण्डले च मृष्टगण्डतले कर्णपीठे च कर्णाभरणविशेषभूते धारयति यः स तथा, तथा विचित्राणि विविधानि हस्ताभरणानि अङ्गुलीयकादीनि यस्य स तथा, तथा विचित्राणि वस्त्राणि चाभरणानि च यस्य, वस्त्राण्येव वाऽऽभरणानि भूषणानि, अवस्थाभरणानि वा 20 अवस्थोचितानीत्यर्थो यस्य स तथा, विचित्रा मालाश्च पुष्पमाला मौलिश्च शेखरो यस्य विचित्रमालानां वा मौलिर्यस्य स तथा, कल्याणकानि मङ्गल्यानि प्रवराणि मूल्यादिना वस्त्राणि परिहितानि निवसितानि येन तान्येव वा परिहितो निवसितो य: स तथा, कल्याणकं प्रवरं च पाठान्तरेण प्रवरगन्धं च माल्यं मालायां साधु १. पुमि त्ति पा० जे२ ॥ २. कल्याणकं च प्रवरं च जे१ ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org