SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे तत्सहस्राणि प्रविकिरन्ति प्रविकिरन्ति अन्तरन्तः झियायंति ध्मायन्ति इन्धनैर्दीप्यन्त इति दृष्टान्तः, दाष्टन्तिकस्त्वेवमेवेत्यादि, पश्चात्तापाग्निना ध्मायति जाज्वल्यते, अहमेसे त्ति अहमेषोऽभिशङ्क्ये अहमेषोऽभिशङ्क्य इति एभिरहं दोषकारितया आशङ्क्ये सम्भाव्ये इति, उक्तं हि 5 निच्वं संकियभीओ गम्मो सव्वस्स खलियचारित्तो । ७२० साहुजणस्स अवमओ मओ वि पुण दुग्गइं जाइ || [ उपदेशमाला० २२६ ] अनेनाऽनालोचकस्यायं लोको गर्हितो भवतीति दर्शितम् । सेणं तस्सेत्यादिना, पाठान्तरेण मायी णं मायं कट्टु इत्यादिना वा उपपातो गर्हितो भवतीति दर्श्यते । कालमासे त्ति मरणमासे उपलक्षणत्वान्मरणदिवसे मरणमुहूर्ते कालं 10 किच्चा मरणं कृत्वा अन्यतरेषु व्यन्तरादीनां देवलोकेषु देवजनेषु मध्ये उववत्तारो त्ति वचनव्यत्ययादुपपत्ता भवतीति, नो महर्द्धिकेषु परिवारादिऋद्ध्या, नो महाद्युतिषु शरीराभरणादिदीप्त्या, नो महानुभागेषु वैक्रियादिशक्तितः, नो महाबलेषु प्राणवत्सु, नो महासौख्येषु नो महेशाख्येषु वा, नो दूरंगतिकेषु न सौधर्म्मादिगतिषु, नो चिरस्थितिकेषु एक-द्व्यादिसागरोपमस्थितिकेषु, यापि च से तस्य तत्र देवलोकेषु 15 बाह्या अप्रत्यासन्ना दासादिवत् अभ्यन्तरा प्रत्यासन्ना पुत्र - कलत्रादिवत् परिषत् परिवारो भवति सापि नो आद्रियते नादरं करोति, नो परिजानाति स्वामितया नाभिमन्यते, नो नैव महच्च तदर्हं च योग्यं महार्हं तेनाऽऽसनेनोपनिमन्त्रयते, किं बहुना ?, दौर्भाग्यातिशयात्तस्य यावच्चतुःपञ्चा: देवा भाषणनिषेधायाऽभ्युत्तिष्ठन्ति प्रयतन्ते, कथम् ?, मा बहुमित्यादि, अनेनोपपातगर्होक्ता । आजातिगर्हितत्वं तु से णमित्यादिनाऽऽचष्टे, से त्ति सोऽनालोचकस्ततो व्यन्तरादिरूपाद् देवलोकादवधेः, आयुः क्षयेण आयुः कर्म्मपुद्गलनिर्जरणेन, भवक्षयेण आयुः कर्मादिनिबन्धनदेवपर्यायनाशेन, स्थितिक्षयेण आयुःस्थितिबन्धक्षयेण देवभवनिबन्धनशेषकर्म्मणां वा, अनन्तरम् आयुः क्षयादेः समनन्तरमेव च्यवं च्यवनं च्युत्वा कृत्वा इहैव प्रत्यक्षे मानुष्यके भवे पुंस्तया प्रत्याजायत इति सम्बन्धः, केषु ? 25 कुलेषु कुटुम्बेषु अन्वयेषु वा, किंविधेषु ? यानि इमानि वक्ष्यमाणतया प्रत्यक्षाणि 20 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001029
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 03
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2004
Total Pages588
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy