________________
७१९
[सू० ५९७]
अष्टममध्ययनम् अष्टस्थानकम् । तथा एकामपीत्यादिना त्वर्थप्राप्तिरुक्तेति, यदाहउद्धरियसव्वसल्लो भत्तपरिन्नाए धणियमाउत्तो । मरणाराहणजुत्तो चंदगवेझं समाणेइ ॥ [ओघनि० ८०७] इति पञ्चममिति ।
एवं बहुत्वेनापि अनालोचनादावालोचनादौ वाऽनर्थोऽर्थश्च षष्ठ-सप्तमे । तथाऽऽचार्योपाध्यायस्य वा मे अतिशेष ज्ञानदर्शनं समुत्पद्येत, स च मामालोकयेत् 5 मायी णमेष इत्युल्लेखेनेत्येवं भयादालोचयतीत्यष्टमम् । शेष सूत्रम् अयं लोक उपपात आजातिश्च गर्हितेत्यस्य पदत्रयस्य विवरणतया अवगन्तव्यम् । तत्र मायी मायां कृत्वेति, इह कीदृशो भवेदुच्यत इति वाक्यशेषो दृश्य:, स इति यो भवतोऽपि प्रसिद्ध: यथेति दृष्टान्तोपन्यासे नामए त्ति सम्भावनायामलङ्कारे वा अयआकरो लोहाकर: यत्र लोहं ध्यायते, इतिरुपप्रदर्शने, वा विकल्पे, तिला धान्यविशेषास्तेषामवयवा अपि 10 तिलास्तेषामग्निः तद्दहनप्रवृत्तो वह्निस्तिलाग्निः, एवं शेषा अप्यग्निविशेषाः, नवरं तुषा: कोद्रवादीनाम्, बुसं यवादीनां कडङ्गरः, नल: शुषिरशराकारः, दलानि पत्राणि, सुण्डिका: पिटकाकाराणि सुरापिष्टस्वेदनभाजनानि केवल्ल्यो वा सम्भाव्यन्ते, तासां लित्थाणि चुल्लीस्थानानि सम्भाव्यन्ते, उक्तं च वृद्धैः- गोलियसोंडियभंडियलित्थाणि अग्नेराश्रयाः [ ], अन्यैस्तु देशभेदरूढ्या एते पिष्टपाचकाग्न्यादिभेदा इत्युक्तम्, 15 मयाऽप्येतदुपजीव्यैव सम्भावितमिति, तथा भाण्डिकाः स्थाल्य:, ता एव महत्यो गोलिकाः, प्रतीतं चैतच्छब्दद्वयम्, लिंत्थानि तान्येवेति, कुम्भकारस्यापाको भाण्डपचनस्थानम्, कवेल्लुकानि प्रतीतानि तेषामापाकः प्रतीत एव, जंतवाडचुल्ली इक्षुयन्त्रपाटचुल्ली, लोहारंबरिसाणि व त्ति लोहकारस्याम्बरीषा भाष्ट्रा आकरणानीति लोहकाराम्बरीषा इति, तप्तानि उष्णानि, समानि तुल्यानि जाज्वल्यमानत्वात् ज्योतिषा 20 वह्निना भूतानि जातानि यानि तानि समज्योतिर्भूतानि, किंशुकफुल्लं पलासकुसुमम्, तत्समानानि रक्ततया, उल्का इव उल्का अग्निपिण्डास्तत्सहस्राणीति प्राचुर्यख्यापकं विनिर्मुञ्चन्ति विनिर्मुञ्चन्तीति भृशार्थे द्विवचनम्, अङ्गारा लघुतराग्निकणाः, १. सरा' पा० जे२ ॥ २. शुंडिका: जे१ ॥ ३. कवेल्लयो पा० ॥ ४. लित्थाणि जे२ ॥ ५. लित्थाणि
जे१,२ ॥ ६. भंडिका: पा० जे२ ॥ ७. लित्थाणि खं० जे२ ।। ८. आकारणानीति खं० । आकाराणीति जे१ ॥ ९. पलाशकुसुमं जे२ । पलासफुल्लं खं० ॥ १०. प्रमुञ्चन्ति प्रमुञ्चन्तीति जे१ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org