________________
७०८
आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे प्रव्रजिता: श्रावकाश्च ये ते व्यवच्छिन्नाः, यूयं वयं चान्ये' इति दत्तप्रत्युत्तर: सम्यक्त्वं प्रतिपन्न: सोऽयं सामुच्छेदिकानां धर्माचार्य इति ४ । __तथा गंग इति, यो हि आर्यमहागिरिशिष्यस्य धनगुप्तस्य शिष्यः
उल्लुकातीराभिधाननगराच्छरद्याचार्यवन्दनार्थं प्रस्थित उल्लुकां नदीमुत्तरन् खलतिना शिरसा 5 दिनकरकरनिकरसम्पातसञ्जातमुष्णं पादाभ्यां च शीतलजलजनितनितान्तशीतं
वेदयंश्चिन्तयामास- सूत्रेऽभिहितमेका क्रियैकदा वेद्यते शीता वोष्णा वा, अहं च द्वे क्रिये वेदयामि अतो द्वे क्रिये समयेनैकेन वेद्येते इति, गत्वा च गुर्वन्तिके वन्दित्वाऽभिदधावभिप्रायमात्मीयमाचार्याय, तेन चावाचि- मैवं वोच:, यतो
नास्त्येकदा क्रियाद्वयवेदनम्, केवलं समय-मनसोरतिसूक्ष्मतया भेदो न लक्ष्यते, 10 उत्पलपत्रशतव्यतिभेदवत्, एवं च प्रतिपादित: सन्नप्रतिपद्यमानो बहिष्कृतः, अन्यदा
राजगृहे महातपस्तीरप्रभाभिधाने नदविशेषे मणिनागनाम्नो नागस्य चैत्ये पर्षन्मध्ये स्वमतमावेदयन् मणिनागेन विसर्पदर्पगर्भया भारत्याऽभिहितो- रे रे दुष्टशैक्ष ! कस्मादस्मासु सत्स्वेवमप्रज्ञापनीयं प्रज्ञापयसि ?, यत इहैव स्थाने स्थितेन भगवता
वर्द्धमानस्वामिना प्रणिन्ये यथैकदैकैव क्रिया वेद्यत इति, ततस्त्वं ततोऽपि लष्टतरो 15 जात: ?, छईयैनं वातम्, मा ते दोषात् नाशयिष्यामीति भयमापन्न: प्रतिबुद्ध:, सोऽयं
द्वैक्रियाणां धर्माचार्य इति ५ ।। ___ तथा छलुए त्ति, द्रव्य-गुण-कर्म-सामान्य-समवाय-विशेषलक्षणषट्पदार्थप्ररूपकत्वाद् गोत्रेण चे कौशिकत्वात् षडुलूकः, यो हि नामान्तरेण रोहगुप्तः,
यश्चाऽन्तरज्यां पुर्यां भूतगुहाभिधानव्यन्तरायतने व्यवस्थितानां श्रीगुप्ताभिधानाना20 माचार्याणां वन्दनार्थं ग्रामान्तरादागच्छन् प्रवादिप्रदापितपटहकध्वनिमाकर्ण्य सदधैं च तं निषेध्याऽऽचार्यस्य तन्निवेद्य ततो मायूर्यादिविद्या उपादाय राजकुलमतिगत्य बलश्रीनाम्नो नरनायकस्याग्रत: पोदृशालाभिधानपरिव्राजकप्रवादिनमाहूय तेन च जीवा-ऽजीवलक्षणे राशिद्वये स्थापिते तत्प्रतिभाप्रतिघाताय नोजीवलक्षणं तृतीयं राशि व्यवस्थाप्य तद्विद्यानां स्वविद्याभिः प्रतिघातकरणेन तं निगृह्य गुरुसमीपमागत्य १. यद्यपि सामान्य-विशेष-समवाय' इति रूढः क्रमः, तथापि अत्र सामान्य-समवाय-विशेष' इति क्रमेण
जे१,२, पा० ख० मध्ये पाठ उपलभ्यते इति तथैव स्थापितम् ॥ २. च नास्ति जे२ खं० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org