________________
सप्तममध्ययनं सप्तस्थानकम् ।
[सू० ५८७ ]
तन्निवेदितवान्, यश्च गुरुणा अभिहितो यथा - गच्छ राजसभामनुप्रविश्य ब्रूहि राशित्रयप्ररूपणमपसिद्धान्तरूपं वादिपरिभवाय मया कृतमिति, ततो योऽभिमानादाचार्यं प्रत्यवादीत् यथा राशित्रयमेवास्ति, तथाहि-- जीवाः संसारस्थादयः, अजीवा घटादयः, नोजीवास्तु दृष्टान्तसिद्धाः, यथा हि दण्डस्यादिमध्याग्राणि भवन्तीत्येवं सर्वभावानां त्रैविध्यमिति, यश्च राजसमक्षमाचार्येण कुत्रिकापणे जीवयाचने पृथिव्यादिजीवलाभात् 5 अजीवयाचने अचेतनलेष्ट्वादिलाभात् नोजीवयाचनेऽचेतनलेष्ट्वादिलाभाच्च निगृहीतः, सोऽयं त्रैराशिकधर्माचार्य इति ६ ।
तथा गोष्ठामाहिल इति, यो हि दंशपुरनगरे आर्यरक्षितस्वामिनि दिवं गते आचार्य श्री दुबे लिकापुष्पमित्रे गणं परिपालयति विन्ध्याभिधानसाधोरष्टमं कर्मप्रवादाभिधानं पूर्वमाचार्यादुपश्रुत्य प्रत्युच्चारयतः कर्म्मबन्धाधिकारे किञ्चित् कर्म 10 जीवप्रदेशैः स्पृष्टमात्रं कालान्तरस्थितिमप्राप्य विघटते शुष्ककुड्यापतितचूर्णमुष्टिवत्, किञ्चित् पुनः स्पृष्टं बद्धं च कालान्तरेण विघटते आर्द्रलेपकुड्ये सस्नेहचूर्णवत् किञ्चित् पुनः स्पृष्टं बद्धं निकाचितं जीवेन सहैकत्वमापन्नं कालान्तरेण वेद्यते इत्येवमाकर्ण्योक्तवान् नन्वेवं मोक्षाभावः प्रसजति, कथम् ? जीवात् कर्म्म न वियुज्यते, अन्योन्याविभागबद्धत्वात्, स्वप्रदेशवत्, उक्तं च
सोउं भणइ सदोसं वक्खाणमिणं ति पावइ जओ ते । मोक्खाभावो जीवप्पएसकम्माविभागाओ ॥
७०९
Jain Education International
नहि कम्मं जीवाओ अवेइ अविभागओ पएस व्व ।
तदणवगमादमोक्खो जुत्तमिणं तेण वक्खाणं ॥ [ विशेषाव० २५१५ - १६] ति, तथा जीवः कर्म्मणा स्पृष्टो न तु बध्यते, वियुज्यमानत्वात्, कञ्चुकेनेव तद्वानिति, 20 ततो विन्ध्यसाधुनैतस्मिन्नाचार्यायाऽर्थे निवेदिते यस्तेनाभिहितो 'भद्र ! यदुक्तं त्वया जीवात् कर्म्म न वियुज्यत इति, तत्र प्रत्यक्षबाधिता प्रतिज्ञा आयु: पुःकर्म्मवियोगात्मकस्य मरणस्य प्रत्यक्षत्वात्, हेतुरप्यनैकान्तिकोऽन्योन्याविभागसम्बद्धानामपि क्षीरोदकादीनामुपायतो वियोगदर्शनात् दृष्टान्तोऽपि न साधनधर्मानुगतः, स्वप्रदेशस्य वियुतत्वासिद्धेस्तद्रूपेणानादिरूपत्वाद् भिन्नं च जीवात् कर्मेति, यच्चोक्तं 'जीवः कर्म्मणा 25 स्पृष्टो न बध्यते' इत्यादि, तत्र किं प्रतिप्रदेशं स्पृष्टो नभसेवोत त्वङ्मात्रे कञ्चुकेनेव ?,
For Private & Personal Use Only
15
www.jainelibrary.org