________________
सप्तममध्ययनं सप्तस्थानकम् ।
[सू० ५८७ ]
७०५
हारादुत्पन्नरोगो वेदनाभिभूततया शयनार्थं समादिष्टसंस्तारक संस्तरणः 'कृत: संस्तारकः ?' इतिविहितपरिप्रश्नः संस्तारककारिसाधुना संस्त्रियमाणत्वेऽपि संस्तृत इतिदत्तप्रतिवचनो गत्वा च दृष्टक्रियमाणसंस्तारकः कर्मोदयाद्विपर्यस्तबुद्धिः प्ररूपयामास ‘यत् क्रियमाणं कृतमिति भगवान् दिदेश तदसत् प्रत्यक्षविरुद्धत्वाद् अश्रावणशब्दवत्', प्रत्यक्षविरुद्धता चास्यार्द्धसंस्तृतसंस्तारकासंस्तृतत्वदर्शनात्, ततश्च क्रियमाणत्वेन 5 प्रत्यक्षसिद्धेन कृतत्वधर्मोऽपनीयत इति भावना, आह च
सक्खं चिय संथारो ण कज्नमाणो कडो त्ति मे जम्हा ।
बेड़ जमाली सच्चं न कज्जमाणं कयं तम्हा ॥ [ विशेषाव० २३०८ ] इति ।
यश्चैवं प्ररूपयन् स्थविरैरेवमुक्त:- हे आचार्य ! क्रियमाणं कृतमिति नाध्यक्षविरुद्धम्, यदि हि क्रियमाणं क्रियाविष्टं कृतं नेष्यते ततः क्रियानारम्भसमय इव पश्चादपि क्रियाऽभावे 10 कथं तदिष्यत इति संदा प्रसङ्गात्, क्रियाऽभावस्याविशिष्टत्वात्, यदप्युक्तम् ‘अर्द्धसंस्तृतसंस्तारकासंस्तृतत्वदर्शनात्' तदप्ययुक्तम्, यतो यद्यदा यत्राकाशदेशे वस्त्रमास्तीर्यते तत्तदा तत्रास्तीर्णमेव, एवं पाश्चात्त्यवस्त्रास्तरणसमये खल्वसावस्तीर्ण एवेति, आह च
जं जत्थ नभोदेसे अत्थुव्वइ जत्थ जत्थ समयम्मि ।
तं तत्थ तत्थमत्थुयमत्थुव्वंतं पि तं चेव ॥ [ विशेषाव० २३२१] इति । तदेवं विशिष्टसमयापेक्षीणि भगवद्वचनानीति, एवमपि प्रत्युक्तो यो न तत् प्रतिपन्नवान्, सोऽयं बहुरतधर्म्माचार्यः १ ।
तथा तिष्यगुप्तः वसुनामधेयाचार्यस्य चतुर्दशपूर्वधरस्य शिष्यः, यो हि राजगृहे विहरन्नात्मप्रवादाभिधानपूर्वस्य एगे भंते ! जीवप्पएसे जीवे त्ति वत्तव्वं सिया ? नो इणट्ठे 20 समट्टे, एवं दो तिन्नि संखेजा असंखेज्जा वा जाव एक्केणावि पएसेण ऊणे नो जीवे त्ति वत्तव्वं सिया, जम्हा कसिणे पडिपुन्ने लोगागासपएसतुल्लप्पएसे जीवे त्ति वत्तव्वं सिया [ ] इत्येवमादिकमालापकमधीयानः कर्मोदयादुत्थितः सन्नित्थमभिहितवान् यद्येकादयो जीवप्रदेशाः खल्वेकप्रदेशहीना अपि न जीवाख्यां लभन्ते किन्तु चरमप्रदेशयुक्ता एव लभन्त इति, ततः स एवैकः प्रदेशो जीव इति, तद्भावभावित्वाज्जीवत्वस्येति, आह च१. सदाऽप्रसंगात् पासं० ॥ २. इणमट्ठे पा० ॥
Jain Education International
For Private & Personal Use Only
15
25
www.jainelibrary.org