________________
७०४
आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे पन्नत्ता, तंजहा-बहुरता, जीवपतेसिता, अव्वत्तिता, सामुच्छेइता, दोकिरिता, तेरासिता, अबद्धिता १ । ___ एतेसि णं सत्तण्हं पवयणनिण्हगाणं सत्त धम्मातरिता होत्था, तंजहा
जमाली, तीसगुत्ते, आसाढे, आसमित्ते, गंगे, छलुए, गोट्ठामाहिले २ । 5 एतेसि णं सत्तण्हं पवयणनिण्हगाणं सत्त उप्पत्तिनगरा होत्था, तंजहा
सावत्थी, उसभपुरं, सेतविता, मिहिल, उल्लुगातीरं । पुरिमंतरंजि, दसपुर, णिण्हगउप्पत्तिनगराई ॥८६॥ ३ । [टी०] एतच्च समुद्घातादिकं जिनाभिहितं वस्त्वन्यथा प्ररूपयन् प्रवचनबाह्यो भवति यथा निह्नवा इति तद्वक्तव्यतां सूत्रत्रयेणाह- समणेत्यादि कण्ठ्यम्, नवरं प्रवचनम् 10 आगमं निह्ववते अपलपन्त्यन्यथा प्ररूपयन्तीति प्रवचननिह्नवा: प्रज्ञप्ता जिनैः । तत्रं
बहुरय त्ति एकेन समयेन क्रियाध्यासितरूपेण वस्तुनोऽनुत्पत्तेः प्रभूतसमयैश्चोत्पत्तेः बहुषु समयेषु रताः सक्ता बहुरताः, दीर्घकालद्रव्यप्रसूतिप्ररूपिण इत्यर्थः । तथा जीव: प्रदेश एव येषां ते जीवप्रदेशास्त एव जीवप्रदेशिका:, अथवा जीवप्रदेशो जीवाभ्युपगमतो विद्यते येषां ते तथा, चरमप्रदेशजीवप्ररूपिण इति हृदयम् । तथा अव्यक्तम् अस्फुटं 15 वस्तु अभ्युपगमतो विद्यते येषां तेऽव्यक्तिकाः, संयताद्यवगमे सन्दिग्धबुद्धय इति
भावना । तथा समुच्छेदः प्रसूत्यनन्तरं सामस्त्येन प्रकर्षेण च छेदः समुच्छेदो विनाश:, समुच्छेदं ब्रुवत इति सामुच्छेदिकाः, क्षणक्षयिकभावप्ररूपका इत्यर्थः । तथा द्वे क्रिये समुदिते द्विक्रियम्, तदधीयते तद्वेदिनो वा द्वैक्रिया:, कालाभेदेन क्रियाद्वयानुभवप्ररूपिण इत्यर्थः, तथा जीवा-ऽजीव-नोजीवभेदास्त्रयो राशय: समाहृतास्त्रिराशि, तत् प्रयोजनं 20 येषां ते त्रैराशिकाः, राशित्रयख्यापका इत्यर्थः । तथा स्पृष्टं जीवेन कर्म न
स्कन्धबन्धवद्वद्धमबद्धम्, तदेषामस्तीत्यबद्धिकाः, स्पृष्टकर्मविपाकप्ररूपका इति हृदयम्। धम्मायरिय त्ति धर्मः उक्तप्ररूपणादिलक्षण: श्रुतधर्मस्तत्प्रधाना: प्रणायकत्वेनाचार्या धर्माचार्यास्तन्मतोपदेष्टार इत्यर्थः, तत्र जमाली क्षत्रियकुमारः, यो हि श्रमणस्य
भगवतो महावीरस्य भागिनेयो भगवद्दुहितु: सुदर्शनाभिधानाया भर्ता पुरुषपञ्चशतीपरिवारो 25 भगवत्प्रवाजित आचार्यत्वं प्राप्त: श्रावस्त्यां नगर्यां तेन्दुके चैत्ये विहरन्ननुचिता
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org