________________
[सू० ५८७] सप्तममध्ययनं सप्तस्थानकम् ।
७०३ घात:, समित्येकीभावे, उत् प्राबल्ये, तत एकीभावेन प्राबल्येन च घातो निर्जरा समुद्घात:, कस्य केन सहै कीभावगमनम् ?, उच्यते, आत्मनो वेदनाकषायाद्यनुभवपरिणामेन, यदा ह्यात्मा वेदनीयाद्यनुभवज्ञानपरिणतो भवति तदा नान्यज्ञानपरिणत इति, प्राबल्येन घात: कथम् ?, यस्माद्वेदनीयादिसमुद्घातपरिणतो बहून् वेदनीयादिकर्मप्रदेशान् कालान्तरानुभवयोग्यानुदीरणाकरणेनाकृष्य उदये 5 प्रक्षिप्यानुभूय निर्जरयति, आत्मप्रदेशैः सह संश्लिष्टा। शातयतीत्यर्थः, उक्तं चपुवकयकम्मसडणं तु निजरा [मूलाचारे ४४५] इति । स च वेदनादिभेदेन सप्तधा भवतीत्याह– सप्त समुद्घाता: प्रज्ञप्ता:, तद्यथा- वेदनासमुद्घात इत्यादि, तत्र वेदनासमुद्घातोऽसद्वेद्यकाश्रयः, कषायसमुद्घातः कषायाख्यचारित्रमोहनीयकर्माश्रय:, मारणान्तिकसमुद्घातोऽन्तर्मुहूर्तशेषायुष्ककर्माश्रयः, वैकुर्विक-तैजसा- 10 ऽऽहारकसमुद्घाता: शरीरनामकर्माश्रयाः, केवलिसमुद्घातस्तु सदसद्वेधशुभाशुभनामोच्चनीचैर्गोत्रकर्माश्रय इति, तत्र वेदनासमुद्घातसमुद्धत आत्मा वेदनीयकर्मपुद्गलशातं करोति, कषायसमुद्घातसमुद्धत: कषायपुद्गलशातं मारणान्तिकसमुद्घातसमुद्धत: आयुष्ककर्मपुद्गलघातं वैकुर्विकसमुद्घातसमुद्धतस्तु जीवप्रदेशान् शरीराबहिनिःकास्य शरीरविष्कम्भबाहल्यमात्रमायामतश्च सङ्ख्येयानि योजनानि दण्डं निसृजति निसृज्य 15 च यथास्थूलान् वैक्रियशरीरनामकर्मपुद्गलान् प्राग्बद्धान् शातयति, यथोक्तम्वेउब्वियसमुग्घाएणं समोहणइ, समोहणित्ता संखेजाइं जोयणाई दंडं निसरइ, २ त्ता अहाबायरे पोग्गले परिसाडेइ [कल्पसू० ] त्ति, एवं तैजसा-ऽऽहारकसमुद्घातावपि व्याख्येयौ, केवलिसमुद्घातेन समुद्धतः केवली वेदनीयादिकर्मपुद्गलान् शातयतीति, इहान्त्योऽष्टसामयिक: शेषास्त्वसङ्ख्यातसामयिका इति ।
. 20 __चतुर्विंशतिदण्डकचिन्तायां सप्तापि समुद्घाता मनुष्याणामेव भवन्तीत्याह- मणुस्साणं सत्तेत्यादि, एवं चेव त्ति सामान्यसूत्र इव सप्तापि समुच्चारणीया इति ।
[सू० ५८७] समणस्स णं भगवतो महावीरस्स तित्थंसि सत्त पवतणनिण्हगा १. 'वेउब्विअसमुग्घाएणं समोहणित्ता संखिज्जाइं जोअणाई दंड निसिरइ, तंजहा- रयणाणं वइराणं वेरुलिआणं
लोहिअक्खाणं मसारगल्लाणं हंसगब्भाणं पुलयाणं सोगंधियाणं जोईरसाणं अंजणाणं अंजणपुलयाणं जायरूवाणं सुभगाणं अंकाणं फलिहाणं रिट्ठाणं अहाबायरे पुग्गले परिसाडेई' इति पर्युषणाकल्पसूत्रे महावीरचरित्रे पाठः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org