________________
आचार्यश्री अभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे
असावद्यः चौर्यादिगर्हितकर्मानालम्बनः, अक्रियः कायिक्याधिकरणिक्यादिक्रियावर्जितः, निरुपक्लेशः शोकादिबाधावर्जितः, स्नु प्रश्रवणे [पा० धा० १०३८] इति वचनात् आस्नवः आश्रवः कर्मोपादानम्, तत्करणशील आस्नवकरः, तन्निषेधादनास्नवकरः प्राणातिपाताद्याश्रववर्जित इत्यर्थः, अक्षयिकरः प्राणिनां न क्षयेः 5 व्यथाविशेषस्य कारकः, अभूताभिशङ्कनो न भूतान्यभिशङ्कन्ते बिभ्यति यस्मात् स तथा, अभयङ्कर इत्यर्थः, एतेषां च प्रायः सदृशार्थत्वेऽपि शब्दनयाभिप्रायेण भेदोऽवगन्तव्योऽन्यथा वेति, एवं शेषमपि । आयुक्तं गमनम् आयुक्तस्य उपयुक्तस्य संलीनयोगस्य यदिति, एवं सर्वत्र, नवरं स्थानम् ऊर्ध्वस्थानं कायोत्सर्गादि, निसीयणं ति निषदनम् उपवेशनम्, तुयट्टणं शयनम्, उल्लङ्घनं डेवनं देहला (ल्या? ) दे:, प्रलङ्घनम् 10 अर्गलादेः, सर्वेषामिन्द्रियाणां योगा व्यापाराः सर्वे वा ये इन्द्रिययोगास्तेषां योजनता करणं सर्वेन्द्रिययोगयोजनता ।
७०२
अब्भासवत्तियं ति प्रत्यासत्तिवर्त्तित्वम्, श्रुताद्यर्थिना हि आचार्यादिसमीपे आसितव्यमित्यर्थः, परच्छंदाणुवत्तियं ति पराभिप्रायानुवर्त्तित्वम्, कज्जहेउं ति कार्यहेतोः, अयमर्थः कार्यं श्रुतप्रापणादिकं हेतुं कृत्वा श्रुतं प्रापितोऽहमनेनेति 15 हेतोरित्यर्थः, विशेषेण विनये तस्य वर्त्तितव्यं तदनुष्ठानं च कर्त्तव्यमिति, तथा कृतप्रतिकृतिता कृते भक्तादिनोपचारे प्रसन्ना गुरवः प्रतिकृतिं प्रत्युपकरणं सूत्रादिदानतः करिष्यन्तीति भक्तादिदानं प्रति यतितव्यमिति, आर्त्तस्य दुःखार्त्तस्य गवेषणम् औषधादेरित्यार्त्तगवेषणं तदेवाऽऽर्त्तगवेषणतेति, पीडितस्योपकार इत्यर्थः, अथवा आत्मना आप्तेन वा भूत्वा गवेषणं सुस्थदुःस्थतयोरन्वेषणं कार्यमिति, देश - कालज्ञता 20 अवसरज्ञता, सर्वार्थेष्वप्रतिलोमता आनुकूल्यमिति ।
[सू० ५८६] सत्त समुग्धाता पन्नत्ता, तंजहा - वेदणासमुग्धाते, कसायसमुग्धाते, मारणंतियसमुग्घाते, वेउव्वियसमुग्घाते, तेजससमुग्धाते, आहारसमुग्घाते केवलसमुग्धा ।
मणुस्साणं सत्त समुग्धाता एवं चेव ।
[टी०] विनयात् कर्मघातो भवति, स च समुद्घाते विशिष्टतर इति समुद्घातप्ररूपणायाह— सत्त समुग्धायेत्यादि, हन् हिंसागत्योः [ पा० धा० १०९२ ], हननं
25
Jain Education International
-
For Private & Personal Use Only
www.jainelibrary.org