SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे विनयः प्रज्ञप्तस्तद्यथा - ज्ञानम् आभिनिबोधिकादि पञ्चधा, तदेव विनयो ज्ञानविनयः, ज्ञानस्य वा विनयो भक्त्यादिकरणं ज्ञानविनयः, उक्तं च भत्ती १ तह बहुमाणो २ तट्ठित्थाण सम्म भावणया ३ । विहिगहण ४ भासो वि य ५ एसो विणओ जिणाभिहिओ ॥ [ ] दर्शनं सम्यक्त्वं तदेव विनयो दर्शनविनयो दर्शनस्य वा तदव्यतिरेकाद्दर्शनगुणाधिकानां शुश्रूषणा- नाशातनारूपो विनयो दर्शनविनयः, उक्तं च सुस्सूसणा अणासायणा य विणओ उ दंसणे दुविहो । दंसणगुणाहिए कज्जइ सुस्सूसणाविणओ || २ सक्कार १ भुट्ठाणे २ सम्माणा ३ सणअभिग्गहो तह य ४ । आसणमणुप्पयाणं ५ कीकम्मं ६ अंजलिगहो य ७ ।। इंतस्सऽणुगच्छणया ८ ठियस्स तह पज्जुवासणा भणिया ९ । गच्छंताणुव्वयणं १० एसो सुस्सूसणाविणओ ॥ [ ] इति, इह च सत्कारः स्तवन-वन्दनादिः, अभ्युत्थानं विनयार्हस्य दर्शनादेवाऽऽसनत्यजनम्, सन्मानो वस्त्र - पात्रादिपूजनम्, आसनाभिग्रहः पुनस्तिष्ठत आदरेण 15 आसनानयनपूर्वकमुपविशताऽत्रेति भणनम्, आसनानुप्रदानं तु आसनस्य स्थानात् स्थानान्तरसञ्चारणम्, कृतिकर्म्म द्वादशावर्त्तवन्दनकम्, शेषं प्रकटमिति, उचितक्रियाकरणरूपोऽयं दर्शने शुश्रूषणाविनयः । अनाशातनाविनयस्तु अनुचितक्रियाविनिवृत्तिरूपः, अयं पञ्चदशविधः, आह च तित्थगर १ धम्म २ आयरिय ३ वायगे ४ थेर ५ कुल ६ गणे ७ संघे ८ । संभोगिय ९ किरियाए १० मइनाणाईण १५ य तहेव ॥ [ ] सम्भोगका एकसामाचारीकाः, क्रिया आस्तिकता, तीर्थकराणामनाशातनायां तीर्थकरप्रज्ञप्तधर्म्मस्यानाशातनायाम् 'वर्त्तितव्य' मित्येवं सर्वत्र अत्र भावना द्रष्टव्यमिति । 5 10 20 25 ७०० काव्वा पुण भत्ती बहुमाणो तहय वन्नवाओ य । अरहंतमाइयाणं केवलनाणावसाणाणं ॥ [ ] उक्तो दर्शनविनयः, साम्प्रतं चारित्रविनय उच्यते, तत्र चारित्रमेव विनयश्चारित्रस्य १. विनयसम्बद्धाः सर्वा अपि गाथा दशवैकालिकस्य हारिभद्र्यां वृत्तावुद्धृता वर्तन्ते ॥ २. कितिकम्मं जे१ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001029
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 03
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2004
Total Pages588
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy