________________
[सू० ५८४-५८५/१] सप्तममध्ययनं सप्तस्थानकम् ।
जावऽच्चुतस्स लहुपरक्कमस्स दस देवसहस्सा जाव जावतिता छट्ठा कच्छा तब्बिगुणा सत्तमा कच्छा ।
[टी०] कच्छ त्ति समूहः, यथा धरणस्य तथा सर्वेषां भवनपतीन्द्राणां महाघोषान्तानाम्, केवलं पादातानीकाधिपतयोऽन्ये ज्ञेया:, ते च पूर्वमनन्तरसूत्रे भणिताः, नाणत्तं ति शक्रादीनामानतप्राणतेन्द्रान्तानामेकान्तरितानां हरिनेगमेषी 5 पादातानीकाधिपतिरीशानादीनामारणाच्युतेन्द्रान्तानामेकान्तरितानां लघुपराक्रम इति । देवेत्यादि, देवाः प्रथमकच्छासम्बन्धिनोऽनया गाथयाऽवगन्तव्याः, चतुरासी गाहा, चतुरशीत्यादीनि पदानि सौधर्मादिषु क्रमेण योजनीयानि, नवरं विंशतिपदमानतप्राणतयोर्योजनीयम्, तयोर्हि प्राणताभिधानस्येन्द्रस्यैकत्वात्, दशेति पदं त्वारणाऽच्युतयोर्योजनीयम्, अच्युताभिधानस्येन्द्रस्यैकत्वादिति ।
10 _[सू० ५८४] सत्तविधे वयणविकप्पे पन्नत्ते, तंजहा-आलावे, अणालावे, उल्लावे, अणुल्लावे, संलावे, पलावे, विप्पलावे ।
[टी०] सकलमिदमनन्तरोदितं वचनप्रत्याय्यमिति वचनभेदानाह– सत्तविहेत्यादि, सप्तविधो वचनस्य भाषणस्य विकल्पो भेदो वचनविकल्प: प्रज्ञप्तस्तद्यथा- आङ ईषदर्थत्वादीषल्लपनमालापः, नञः कुत्सार्थत्वादशीलेत्यादिवत् कुत्सित आलाप: 15 अनालाप इति, उल्लापः काक्वा वर्णनं काक्वा वर्णनमुल्लापः [अमरको० ? ] इति वचनात्, स एव कुत्सितोऽनुल्लाप:, क्वचित् पुनरनुलाप इति पाठस्तत्रानुलाप: पौन:पुन्यभाषणम् अनुलापो मुहुर्भाषा [अमरको० १६] इति वचनात्, संलाप: परस्परभाषणं संलापो भाषणं मिथ: [अमरको० १६] इति वचनात्, प्रलापो निरर्थकं वचनं प्रलापोऽनर्थकं वचः [अमरको० १५] इति वचनात्, स एव विविधो विप्रलाप इति ।
20 [सू० ५८५-१] सत्तविधे विणए पन्नत्ते, तंजहा-णाणविणए, दंसणविणए, चरित्तविणए, मणविणए, वतिविणए, कायविणए, लोगोवयारविणए ।
[टी०] एतेषां वचनविकल्पानां मध्ये केचिद्विकल्पा विनयार्था अपि स्युरिति विनयभेदप्रतिपादनायाह- सत्तविहेत्यादि, सप्तविधो विनीयतेऽष्टप्रकारं कर्माऽनेनेति १. हरिणेग जे१ ॥ २. अणुलावे पा० भां० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org