________________
[सू० ५६५-५६८]
सप्तममध्ययनं सप्तस्थानकम् । त्रिभिः शतैरभ्यन्तरपर्षदा च स्त्रीणां त्रिभिः शतैः सह प्रवव्राज, उत्पन्नकेवलश्च तान् प्रव्राजितवानिति ।
[सू० ५६५] सत्तविहे दंसणे पन्नत्ते, तंजहा-सम्मदंसणे, मिच्छदंसणे, सम्मामिच्छदंसणे, चक्खुदंसणे, अचक्खुदंसणे, ओहिदंसणे, केवलदसणे ।
[टी०] एते च सम्यग्दर्शने सति प्रव्रजिता इति सामान्यतो दर्शननिरूपणायाह- 5 दंसणेत्यादि सुगमम्, परं सम्यग्दर्शनं सम्यक्त्वं मिथ्यादर्शनं मिथ्यात्वं सम्यग्मिथ्यादर्शनं मिश्रमिति, एतच्च त्रिविधमपि दर्शनमोहनीयभेदानां क्षयक्षयोपशमोपशमोदयेभ्यो जायते तथाविधरुचिस्वभावं चेति, चक्षुर्दर्शनादि तु दर्शनावरणीयभेदचतुष्टयस्य यथासम्भवं क्षयोपशम-क्षयाभ्यां जायते सामान्यग्रहणस्वभावं चेति, तदेवं श्रद्धान-सामान्यग्रहणयोर्दर्शनशब्दवाच्यत्वाद्दर्शनं सप्तधोक्तमिति । 10
[सू० ५६६] छउमत्थवीयरागे णं मोहणिज्जवजाओ सत्त कम्मपयडीओ वेदेति, तंजहा-णाणावरणिजं दरिसणावरणिजं वेयणिजं आउयं नामं गोतमंतरातितं ।
[सू० ५६७] सत्त ठाणाई छउमत्थे सव्वभावेणं न याणति न पासति, तंजहा-धम्मत्थिकायं, अधम्मत्थिकायं, आगासत्थिकायं, जीवं असरीरपडिबद्धं, 15 परमाणुपोग्गलं, सई, गंधं । ___ एयाणि चेव उप्पन्नणाणे जाव जाणति पासति, तंजहा-धम्मत्थिकायं जाव गंधं ।
[टी०] अनन्तरं केवलदर्शनमुक्तम्, तच्च छद्मस्थावस्थाया अनन्तरं भवतीति छद्मस्थप्रतिबद्धं सूत्रद्वयं विपर्ययसूत्रं च छउमत्थेत्यादि सुगमम्, नवरं छद्मनि 20 आवरणद्वयरूपे अन्तराये च कर्मणि तिष्ठतीति छद्मस्थः अनुत्पन्नकेवलज्ञान-दर्शन: स चासौ वीतरागश्च उपशान्तमोहत्वात् क्षीणमोहत्वाद्वा विगतरागोदय इत्यर्थः, सत्त त्ति मोहस्य क्षयादुपशमाद्वा नाऽष्टावित्यर्थः, अत एवाह- मोहणिज्जवजाउ त्ति ।
[सू० ५६८] समणे भगवं महावीरे वइरोसभणारातसंघयणे समचउरंससंठाणसंठिते सत्त रयणीओ उडुंउच्चत्तेणं होत्था ।
25
१. क्षय-उपशम-क्षयोपशमोदयेभ्यो जे१ ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org