________________
६९०
आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे निहतकतिपयप्रधानपुरुषमतिनिशितशरशतजर्जरितजयकुञ्जरमतिखरक्षुरुप्रप्रहारोत्प्लुतवाजिविसरविक्षिप्ताश्ववारमुत्तुङ्गमत्तमतङ्गजचूर्णितचक्रि चक्रमुल्लूनच्छत्रं पतत्पताकं कान्दिशीककातरं कुम्भकसैन्यं भङ्गमगमत्, ततोऽसौ निवृत्य रोधकसज्ज: सन्नासामासे, ततस्तज्जयोपायमलभमानमतिव्याकुलमानसं जनकमवलोक्य मल्ली समाश्वासयन्ती 5 समादिदेश, यदुत- भवते दीयते कन्येत्येवं प्रतिपादनपरपरस्परप्रच्छन्नपुरुषप्रत्येकप्रेषणोपायेन पुरि पार्थिवाः षडपि प्रवेश्यन्ताम्, तथैव कृतम्, प्रवेशितास्ते पूर्वरचितगर्भगृहेषु, मल्लिप्रतिमामवलोक्य च ते सेयं मल्लीति मन्यमानास्तद्रूप-यौवनलावण्येषु मूर्च्छिता निर्निमेषदृष्ट्या तामेवावलोकयन्तस्तिष्ठन्ति स्म, ततो मल्ली तत्राजगाम,
प्रतिमाया: पिधानं चापससार, ततस्तस्या गन्ध: सादिकमृतकगन्धातिरिक्त उद्दधाव, 10 ततस्ते नासिकां पिदधुः पराङ्मुखाश्च तस्थुः, मल्ली च तानेवमवादीत्- किन्नु भो यूयमेवं
पिहितनासिका: पराङ्मुखीभूताः ?, ते ऊचुः- गन्धेनाभिभूतत्वात्, पुन: साऽवोचत्यदि भो देवानांप्रिया: ! प्रतिदिनमतिमनोज्ञाहारकवलक्षेपेणैवंरूप: पुद्गलपरिणाम: प्रवर्तते कीदृश: पुनरस्यौदारिकस्य शरीरस्य खेल-वान्त-पित्त-शुक्र-शोणित-पूयाश्रवस्य
दुरन्तोच्छ्वासनिःश्वासस्य पूतिपुरीषपूर्णस्य चयापचयिकस्य शटन-पतन-विध्वंसनधर्मकस्य 15 परिणामो भविष्यतीति?, ततो मा यूयं मानुष्यककामेषु सजत, किञ्च
किं थ तयं पम्हुटुं जं थ तया भो जयंतपवरम्मि ।। वुच्छा समयनिबद्धं देवा ! तं संभरह जाइं ॥ [ज्ञाताधर्म० ११८]
इति भणिते सर्वेषामुत्पन्नं जातिस्मरणम्, अथ मल्लिरवादीत्- अहं भो: ! संसारभयात् प्रव्रजिष्यामि, यूयं किं करिष्यथ ?, ते ऊचुः- वयमप्येवम्, ततो मल्लिरवोचत्– यद्येवं 20 ततो गच्छत स्वनगरेषु स्थापयत पुत्रान् राज्येषु तत: प्रादुर्भवत ममान्तिकमिति, तेऽपि तथैव प्रतिपेदिरे, ततस्तान् मल्ली गृहीत्वा कुम्भकराजान्तिकमाजगाम, तस्य तान् पादयो: पातयामास, कुम्भकराजोऽपि तान् महता प्रमोदेनापुपूजत् स्वस्थानेषु च विससर्जेति, मल्ली च सांवत्सरिकमहादानानन्तरं पोषशुद्धैकादश्यामष्टमभक्तेनाश्विनीनक्षत्रे तै: षड्भिर्नृपतिभिरन्यैश्चाष्टभिर्नन्द-नन्दिमित्रादिभिर्नागवंश्यकुमारैस्तथा बाह्यपर्षदा पुरुषाणां १. किंनु भूपा यूय पा० जे२ ॥ २. पूपुजत् खं० पासं० जे२ । 'पुपुजत् पामू० ॥ ३. नक्षत्रेष्टभिर्नन्द
नन्दिमित्रा' खं० पामू० जे२॥ ४. परिषदा जे१ खं० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org