________________
६८९
[सू० ५६४]
सप्तममध्ययनं सप्तस्थानकम् । इत्युपश्रुत्य तथैव दूतं प्रेषयति स्मेति ३ ।
तथा अन्यदा मल्लिसत्कदिव्यकुण्डलयुग्मसन्धिर्विजघटे, तत्सङ्घटनार्थं कुम्भकेन सुवर्णकारा: समादिष्टास्तथैव कर्तुं तमशक्नुवन्तश्च नगर्या निष्कासिता:, वाराणस्यां शङ्खराजमाश्रिताः, भणिताश्च ते तेन- केन कारणेन कुम्भेन निष्कासिता यूयम् ?, तेऽभिदधुः- मल्लिकन्यासत्कविघटितकर्णकुण्डलसन्धानाशकनेनेति, ततः कीदृशी सेति 5 पृष्टेभ्यस्तेभ्यो मल्लिरूपमुपश्रुत्य तथैव दूतं प्राहिणोत् ४ । ___ तथा कदाचिन्मल्ल्या मल्लदिन्नाभिधानोऽनुजो भ्राता सभां चित्रकश्चित्रयामास, तत्रैकेन चित्रकरयूना लब्धिविशेषवता यमनिकान्तरिताया मल्लिकन्याया: पादाङ्गुष्ठमुपलभ्य तदनुसारेण मल्लिसदृशमिव तद्रूपं निर्वर्तितम्, ततश्च मल्लदिन्नकुमार: सान्त:पुरश्चित्रसभायां प्रविवेश, विचित्राणि च चित्ररूपाण्यवलोकयन् मल्लिरूपं ददर्श, साक्षान्मल्लीयमिति 10 मन्यमानो ज्येष्ठाया भगिन्या गुरुदेवभूताया अहमग्रतोऽविनयेनायात इति भावयन् परमव्रीडां जगाम, ततस्तद्धात्री चित्रमिदमिति न्यवेदयत्, ततोऽसावस्थाने तेनेदं लिखितमिति कुपितस्तं वध्यमाज्ञापितवान्, चित्रकरश्रेणी तु तं ततो मोचयामास, तथापि कुमार: सन्दंशकं छेदयित्वा तं निर्विषयमादिदेश, स च हस्तिनागपुरे अदीनशत्रुराजमुपाश्रितः, ततो राजा तन्निर्गमकारणं पप्रच्छ, तेन च तथैव कथिते दूतं प्रहिणोति स्मेति ५ । 15 __तथा कदाचिच्चोक्षाभिधाना परिव्राजिका मल्लिभवनं प्रविवेश, तां च दानधर्मं च शौचधर्मं चोद्ग्राहयन्तीं मल्लिस्वामिनी निर्जिगाय, निर्जिता च सती सा कुपिता काम्पिल्यपुरे जितशत्रुराजमुपाश्रिता, भणितं च नरपतिना- चोक्षे ! बहुत्र त्वं संचरस्यतोऽद्राक्षी: काञ्चित् क्वचिदस्मदन्तःपुरपुरन्ध्रिसदृशीम् ?, सा व्याजहारविदेहवरराजकन्यापेक्षया युष्मत्पुरन्ध्रयो लक्षांशेऽपि रूप-सौभाग्यादिभिर्गुणैर्न वर्तन्त 20 इति श्रुत्वा तथैव दूतं विसर्जितवानिति ६ । ___ एवमेते षडपि दूता: कुम्भकं कन्यां याचितवन्त:, स च तानपद्वारेण निष्कासितवान्, दूतवचनाकर्णनाजातकोपाः षडपि अविक्षेपेण मिथिलां प्रति प्रतस्थुः, आगच्छतश्च तानुपश्रुत्य कुम्भक: सबल-वाहनो देशसीमान्ते गत्वा रणरङ्गरसिकतया तान् प्रतीक्षमाणस्तस्थौ, आयातेषु तेषु लग्नमायोधनम्, बहुत्वात् परबलस्य 25 १. रेण सदृशमिव जे१ खं० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org