________________
६८८
आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे तेषु यदा ते तमनुसरन्तश्चतुर्थादि विदधुस्तदाऽसावष्टमादि व्यधासीद्, एवं च स्त्रीनामगोत्रकर्माऽसौ बबन्ध अर्हदादिवात्सल्यादिभिश्च हेतुभिस्तीर्थकरनामेति, ततस्ते जीवितक्षयाजयन्ताभिधानविमाने अनुत्तरसुरत्वेनोत्पेदिरे, ततश्च्युत्वा महाबलो विदेहेषु जनपदेषु मिथिलायां राजधान्यां कुम्भकराजस्य प्रभावत्या देव्यास्तीर्थकरीत्वेन 5 समजनि, मल्लिरिति नाम च पितरौ चक्रतुः, तदन्ये तु यथोक्तेषु साकेतादिषु सञ्जज्ञिरे, ततो मल्ली देशोनवर्षशतजाता अवधिना तानाभोगयाञ्चकार, तत्प्रतिबोधनार्थं च गृहोपवने षड्गर्भगृहोपेतं भवनं तन्मध्यभागे च कनकमयीं शुषिरां मस्तकच्छिद्रां पद्मपिधानां स्वप्रतिमां कारयामास, तस्यां चानुदिवसं स्वकीयभोजनकवलं प्रक्षेपयामास, इतश्च
साकेते प्रतिबुद्धिराज: पद्मावत्या देव्या कारिते नागयज्ञे जलजादिभास्वरपञ्च10 वर्णकुसुमनिर्मितं श्रीदामगण्डकं दृष्ट्वा अहोऽपूर्वभक्तिकम् इदमिति विस्मयादमात्यमुवाच
दृष्ट क्वापीदमीदृशमिति ?, सोऽवोचत्- मल्लिविदेहवरराजकन्यासत्कश्रीदामगण्डापेक्षयेदं लक्षांशेऽपि शोभया न वर्त्तते, ततो राज्ञाऽवाचि- सा पुनः कीदृशी ?, मन्त्री जगादअन्या नास्ति तादृशीत्युपश्रुत्य सञ्जातानुरागोऽसौ मल्लिवरणार्थं दूतं विससर्ज १ ।
तथा चम्पायां चन्द्रच्छायराजः कदाचिदर्हन्नकाभिधानेन श्रावकेण पोतवणिजा 15 चम्पावास्तव्येन यात्राप्रतिनिवृत्तेन दिव्ये कुण्डलयुग्मे कौशलिकतयोपनीते सति पप्रच्छ,
यदुत- यूयं बहुश: समुद्रं लङ्घयथ, तत्र च किञ्चिदाश्चर्यमपश्यत ?, सोऽवोचत्स्वामिन्नस्यां यात्रायां समुद्रमध्येऽस्माकं धर्मचालनार्थं देव: कश्चिदुपसर्गं चकार, अविचलने चास्माकं तुष्टेन तेन कुण्डलयुगलद्वितयमदायि, तदेकं कुम्भकस्य अस्माभिरुपनिन्ये,
तेनापि मल्लिकन्याया: कर्णयो: स्वकरेण विन्यासि, सा च कन्या त्रिभुवनाश्चर्यभूता दृष्टा, 20 इति श्रुत्वा तथैव दूतं प्रेषयामास २ ।
तथा श्रावस्त्यां रुक्मिराजः सुबाह्वभिधानाया: स्वदुहितुश्चातुर्मासिकमजनमहोत्सवे नगरीचतुष्पथनिवेशितमहामण्डपे विभूत्या मज्जितां तां तत्रैवोपविष्टस्य पितुः पादवन्दनार्थमागताम् अङ्के निवेश्य तल्लावण्यमवलोकयन् व्याजहार, यदुत भो वर्षधर!
दृष्ट ईदृशोऽन्यस्या: कस्याश्चिदपि कन्याया मज्जनकमहोत्सव: ?, सोऽवोचद्- देव ! 25 विदेहवरराजकन्यासत्कमजनोत्सवापेक्षया अयं लक्षांशेऽपि रमणीयतया न वर्त्तत
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org