________________
६८७
[सू० ५६४]
सप्तममध्ययनं सप्तस्थानकम् । [टी०] अनन्तरं कृष्णलेश्यादयो जीवभेदा उक्ताः, तत्र च कृष्णलेश्य: सन्नारकोऽप्युत्पद्यते ब्रह्मदत्तवदिति ब्रह्मदत्तस्वरूपाभिधानायाह- बंभदत्तेत्यादि सुगमम्।
[सू० ५६४] मल्ली णं अरहा अप्पसत्तमे मुंडे भवित्ता अगारातो अणगारियं पव्वइए, तंजहा-मल्ली विदेहरायवरकन्नगा, पडिबुद्धी इक्खागराया, चंदच्छाये अंगराया, रुप्पी कुणालाधिपती, संखे कासीराया, अदीणसत्तू कुरुराया, 5 जितसत्तू पंचालराया ।
[टी०] ब्रह्मदत्त उत्तमपुरुष इति तदधिकारात् उत्तमपुरुषविशेषस्थानोत्पन्नमल्लिवक्तव्यतामाह- मल्ली णमित्यादि, मल्लिरहन् अप्पसत्तमे त्ति आत्मना सप्तम: सप्तानां पूरण:, आत्मा वा सप्तमो यस्यासावात्मसप्तमः, मल्लिशब्दस्य स्त्रीलिङ्गत्वेऽप्यर्हच्छब्दापेक्षया पुंनिर्देश:, विदेहजनपदराजस्य वरकन्या विदेहराजवरकन्या १, 10 तथा प्रतिबुद्धिर्नाम्ना इक्ष्वाकुराज: साकेतनिवासी २, चन्द्रच्छायो नाम अङ्गजनपदराजश्चम्पानिवासी ३, रुक्मी नाम कुणालजनपदाधिपति: श्रावस्तीवास्तव्यः ४, शङ्खो नाम काशीजनपदराजो वाराणसीनिवासी ५, अदीनशत्रुर्नाम्ना कुरुदेशनाथ: हस्तिनागपुरवास्तव्य: ६, जितशत्रुर्नाम पञ्चालजनपदराज: काम्पिल्यनगरनायक इति ७, आत्मसप्तमत्वं च भगवत: प्रव्रज्यायामभिहितप्रधानपुरुषापेक्षयावगन्तव्यम्, 15 अन्यथा त्रिभिः पुरुषशतैः बाह्यपरिषदा त्रिभिश्च स्त्रीशतैरभ्यन्तरपरिषदाऽसौ परिवृतः प्रव्रजित इति ज्ञातेषु श्रूयत इति, उक्तं च- पासो मल्ली य तिहिं तिहिं सएहिं आव० नि० २२४] ति, एवमन्येष्वपि विरोधाभासेषु विषयविभागा: सम्भवन्तीति निपुणैर्गवेषणीया:, शेष सुगममिति । __ इत्थं चैतच्चरितं मल्लिज्ञाताध्ययने श्रूयते- जम्बूद्वीपेऽपरविदेहे सलिलावतीविजये 20 वीतशोकायां राजधान्यां महाबलाभिधानो राजा षड्भिर्बालवयस्यैः सह प्रव्रज्यां प्रतिपेदे, तत्र महाबलस्तैर्वयस्यानगारैरूचे- यद्भवांस्तपस्तपस्यति तद्वयमपीत्येवं प्रतिपन्नेषु १. `तपुरुषप्रव्रज्याग्रहणाभ्युपगतापेक्षया अवगन्तव्यम्, यतः प्रव्रजितेन प्रवाजिताः तथा त्रिभिः- खं० ।
"तपुरुषप्रव्रज्याग्रहणाभ्युपगमापेक्षया अवगन्तव्यम्, यतः प्रव्रजितेन तेन ते प्रवाजिताः, तथा त्रिभिः पा० । 'तप्रधानपुरुषप्रव्रज्याग्रहणाभ्युपगमापेक्षया अवगन्तव्यम्, यतः प्रव्रजितेन तेन ते प्रताजिताः, तथा त्रिभिः- जे२ ॥ २. परिव्रजित ण. जे२ ॥ ३. दृश्यतां णायाधम्मकहाओ-अष्टममध्ययनम् ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org