________________
६८३
[सू० ५५६-५५९]
सप्तममध्ययनं सप्तस्थानकम् । सेणावतीरतणे, गाहावतिरतणे, वडतिरयणे, पुरोहितरयणे, इत्थिरतणे, आसरतणे, हत्थिरयणे ।।
[सू० ५५९] सत्तहिं ठाणेहिं ओगाढं दुस्समं जाणेज्जा, तंजहा-अकाले वरिसइ, काले ण वरिसइ, असाधू पुजंति, साधू ण पुजंति, गुरूहि जणो मिच्छं पडिवन्नो, मणोदुहता, वतिदुहता ।
सत्तहिं ठाणेहिं ओगाढं सुसमं जाणेज्जा, तंजहा-अकाले न वरिसइ, काले वरिसति, असाधू ण पुजंति, साधू पुजंति, गुरूहिं जणो सम्म पडिवन्नो, मणोसुहता, वतिसुहता ।
टी०] मनुष्यक्षेत्राधिकारात्तद्गतकुलकर-कल्पवृक्ष-नीति-रत्न-दुष्षमादिलिङ्गसूत्राणि, पाठसिद्धानि चैतानि, नवरम् आगमिस्सेण होक्खइ त्ति आगमिष्यता कालेन हेतुना 10 भविष्यतीत्यर्थः, तथा विमलवाहने प्रथमकुलकरे सति सप्तविधा इति पूर्वं दशविधा अभूवन्, रुक्ख त्ति कल्पवृक्षाः, उवभोगत्ताए त्ति उपभोग्यतया हव्वं शीघ्रमागतवन्त:, भोजनादिसम्पादनेनोपभोगं तत्कालीनमनुष्याणामागता इत्यर्थः ।
मत्तंगया य गाहा, मत्तंगया इति मत्तं मदस्तस्य कारणत्वान्मद्यमिह मत्तशब्देनोच्यते, तस्याङ्गभूता: कारणभूताः, तदेव वाऽङ्गम् अवयवो येषां ते मत्ताङ्गकाः, 15 सुखपेयमद्यदायिन इत्यर्थः, चकार: पूरणे, भिंग त्ति संज्ञाशब्दत्वाद् भृङ्गारादिविविधभाजनसम्पादका भृङ्गाः, चित्तंग त्ति चित्रस्य अनेकविधस्य माल्यस्य कारणत्वाच्चित्राङ्गाः, चित्तरस त्ति चित्रा विचित्रा रसा मधुरादयो मनोहारिणो येभ्य: सकाशात् सम्पद्यन्ते ते चित्ररसा:, मणियंग त्ति मणीनाम् आभरणभूतानामङ्गभूताः कारणभूता: मणयो वा अङ्गानि अवयवा येषां ते मण्यङ्गाः, भूषणसम्पादका इत्यर्थः, 20 अणियण त्ति अनग्नकारकत्वादनना विशिष्टवस्त्रदायिनः, संज्ञाशब्दो वाऽयमिति, कप्परुक्ख त्ति उक्तव्यतिरिक्तसामान्यकल्पितफलदायित्वेन कल्पना कल्पस्तत्प्रधाना वृक्षा: कल्पवृक्षा इति । __दंडनीइ त्ति दण्डनं दण्ड: अपराधिनामनुशासनम्, तत्र तस्य वा स एव वा नीति: नयो दण्डनीति:, हक्कारे त्ति ह इत्यधिक्षेपार्थस्तस्य करणं हक्कारः, अयमर्थ:- प्रथम- 25
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org