________________
आचार्यश्री अभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे
द्वितीयकुलकरकालेऽपराधिनो दण्डो हक्कारमात्रम्, तेनैवासौ हृतसर्वस्वमिवात्मानं मन्यमानः पुनरपराधस्थाने न प्रवर्त्तत इति तस्य दण्डनीतिता, एवं मा इत्यस्य निषेधार्थस्य करणम् अभिधानं माकारः, तृतीय- चतुर्थकुलकरकाले महत्यपराधे माकारो दण्डः इतरत्र तु पूर्व एवेति, तथा धिगधिक्षेपार्थ एव तस्य करणम् उच्चारणं धिक्कारः, पञ्चम-षष्ठ5 सप्तमकुलकरकाले महापराधे धिक्कारो दण्डो जघन्य - मध्यमापराधयोस्तु क्रमेण हक्कारमाकाराविति, आह च
पढम-बीयाण पढमा तइय-चउत्थाण अभिनवा बीया ।
पंचम - छट्ठस्स य सत्तमस्स तइया अभिणवा उ ।। [ आव० नि० १६८ ] इति ।
तथा परिभाषणं परिभाषा अपराधिनं प्रति कोपाविष्कारेण मा यासीरित्यभिधानम्, 10 तथा मण्डलबन्धो मण्डलम् इङ्गितं क्षेत्रम्, तत्र बन्धो नास्मात् प्रदेशाद् गन्तव्यमित्येवं वचनलक्षणम्, पुरुषमण्डलपरिवारणलक्षणो वा, चारकम् गुप्तिगृहम्, छविच्छेदो हस्त-पाद-नासिकादिच्छेदः, इयमनन्तरा चतुर्विधा भरतकाले बभूव, चतसृणामन्त्यानामाद्यद्वयमृषभकाले अन्यत् तु भरतकाले इत्यन्ये, आह च
15
६८४
20
परिभासणा उ पढमा मंडलिबंधम्मि होइ बीया उ ।
चारग- छविछेदादी भरहस्स चउव्विहा नीई || [ आव० भा० ३] इति ।
] इति वचनात्
चक्करयणेत्यादि, रत्नं निगद्यते तत् जातौ जातौ यदुत्कृष्टम् [ चक्रादिजातिषु यानि वीर्यत उत्कृष्टानि तानि चक्ररत्नादीनि मन्तव्यानि, तत्र चक्रादीनि सप्तैकेन्द्रियाणि पृथिवीपरिणामरूपाणि तेषां च प्रमाणम्
चक्कं छत्तं दंडोतिन्नि वि एयाइं वामतुल्लाई ।
चम्मं दुहत्थदीहं बत्तीसं अंगुलाई असी ॥
चउरंगुलो मणी पुण तस्सद्धं चेव होइ वित्थिन्नो ।
चउरंगुलप्पमाणा सुवन्नवरकागणी नेया ॥ [ बृहत्सं० ३०१-२]
सेनापतिः सैन्यनायकः, गृहपतिः कोष्ठागारनियुक्तः, वर्द्धकी सूत्रधारः, पुरोहितः शान्तिकर्मकारीति, चतुर्दशाप्येतानि प्रत्येकं यक्षसहस्राधिष्ठितानीति ।
१. अन्ये तु जे२ । अन्यत्तु नीतिद्वयमित्यर्थः । ' अन्ये तु द्वे नीती' इत्यर्थः ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org