________________
सप्तममध्ययन सप्तस्थानकम् ।
[सू० ५५३]
तथा गन्धो विद्यते यत्र स गन्धारः, स एव गान्धारः, गन्धवाहविशेष: इत्यर्थः, अभाणि हिवायुः समुत्थितो नाभे: कण्ठशीर्षसमाहत: । नानागन्धावहः पुण्यो गान्धारस्तेन हेतुना ॥ [ ] तथा मध्ये कायस्य भवो मध्यम:, यदवाचिवायुः समुत्थितो नाभेरुरोहृदि समाहतः । नाभिं प्राप्तो महानादो मध्यमत्वं समश्नुते ॥ [ ]
तथा पञ्चानां षड्जादिस्वराणां निर्देशक्रममाश्रित्य पूरण: पञ्चमः, अथवा पञ्चसु नाभ्यादिस्थानेषु मातीति पञ्चम: स्वरः, यदभ्यधायि
वायुः समुत्थितो नाभेरुरोहत्कण्ठशिरोहतः । पञ्चस्थानोत्थितस्यास्य पञ्चमत्वं विधीयते ॥ [ ] तथा अभिसन्धयते अनुसन्धयति शेषस्वरानिति निरुक्तिवशाद् धैवत:, यदुक्तम्अभिसन्धयते यस्मादेतान् पूर्वोत्थितान् स्वरान् ।। तस्मादस्य स्वरस्यापि धैवतत्वं विधीयते ॥ [ ] पाठान्तरेण रेवतश्चैवेति । तथा निषीदन्ति स्वरा यस्मिन् स निषादः, यतोऽभिहितम्
___15 निषीदन्ति स्वरा यस्मान्निषादस्तेन हेतुना । सर्वांश्चाभिभवत्येष यदादित्योऽस्य दैवतम् ॥ [ ] इति । तदेवं स्वराः सप्त वियाहिय त्ति व्याख्याता: । ननु कार्यं हि कारणायत्तम्, जिह्वा च स्वरस्य कारणम्, सा चासङ्ख्येयरूपा तत: कथं स्वराणां सङ्ख्यातत्वमिति, उच्यते, असङ्ख्याता अपि विशेषत: स्वरा: सामान्यत: सर्वेऽपि सप्तस्वन्तर्भवन्ति, अथवा 20 स्थूरस्वरान् गीतं वाश्रित्य सप्त उक्ताः, आह च
कज्ज करणायत्तं जीहा य सरस्स ता असंखेज्जा । सरसंखमसंखेजा करणस्सासंखयत्ताओ ।। सत्त य सुत्तनिबद्धा कह न विरोहो ? ततो गुरू आह ।
सत्तणुवाई सव्वे बायरगहणं च गेयं वा ॥ [ ] इति । १. असंख' जेमू१ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org