________________
६७६
आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे स्वरान्नामतोऽभिधाय कारणतस्तन्निरूपणायोपक्रमते- एएसि णमित्यादि, तत्र नाभिसमुत्थ: स्वरोऽविकारी आभोगेन अनाभोगेन वा यं प्रदेशं प्राप्य विशेषमासादयति तत् स्वरस्योपकारकमिति स्वरस्थानमुच्यते। सज्जमित्यादिश्लोकद्वयम्, ब्रूयादिति सर्वत्र क्रिया, षड्जं तु प्रथमस्वरमेव, अग्रभूता जिह्वा अग्रजिह्वा जिह्वाग्रमित्यर्थः, तया, 5 यद्यपि षड्जभणने स्थानान्तराण्यपि व्याप्रियन्ते अग्रजिह्वा वा स्वरान्तरेषु व्याप्रियते
तथापि सा तत्र बहुतरव्यापारवतीति कृत्वा तया तमेव ब्रूयादित्यभिहितम्, उरो वक्षस्तेन ऋषभस्वरम्, कंठुग्गएणं ति कण्ठश्चासावुग्रकश्च उत्कट: कण्ठोग्रकस्तेन कण्ठस्य वोग्रत्वं यत्तेन कण्ठोग्रत्वेन कण्ठाद्वा यदुद्गतम् उद्गति: स्वरोद्गमलक्षणा क्रिया तेन कण्ठोद्गतेन
गान्धारम्, जिह्वाया मध्यो भागो मध्यजिह्वा, तया मध्यमम्; तथा दन्ताश्च ओष्ठौ 10 च दन्तोष्ठं तेन धैवतं रेवतं वेति । __जीवनिस्सिय त्ति जीवाश्रिता: जीवेभ्यो वा नि:सृता निर्गताः । सज्जमित्यादिश्लोकः, नदति रौति, गवेलग त्ति गावश्च एलकाश्च ऊरणका गवेलका:, अथवा गवेलका ऊरणका एव इति । अह कुसुम इत्यादिरूपकं गाथाभिधानम्,
विषमाक्षरपादं वा पादैरसमं दशधर्मवत् । 15 तन्त्रेऽस्मिन् यदसिद्ध गाथेति तत् पण्डितै या ॥ [ ] इति वचनात् ।
अथेति विशेषार्थः, विशेषार्थता चैवम्- यथा गवेलका अविशेषेण मध्यमं स्वरं नदन्ति न तथा कोकिला: पञ्चमम्, अपि तु कुसुमसम्भवे काल इति । कुसुमानां बाहुल्यतो वनस्पतिषु सम्भवो यस्मिन् स तथा तत्र, मधावित्यर्थः । अजीवनिस्सिय
त्ति तथैव, नवरं जीवप्रयोगादेत इति । सजमित्यादि श्लोकः, मृदङ्गो मर्दल:, गोमुखी 20 काहला यतस्तस्या मुखे गोशृङ्गमन्यद्वा क्रियत इति, चउ इत्यादिश्लोकः, चतुर्भिश्चरणैः
प्रतिष्ठानं भुवि यस्याः सा तथा, गोधाचर्मणा अवनद्धेति गोधिका वाद्यविशेषो दईरिकेति यत्पर्याय:, आडम्बरः पटहः, सप्तममिति निषादम् ।।
एएसि णमित्यादि, सत्त त्ति स्वरभेदात् सप्त स्वरलक्षणानि यथास्वं फलं प्रति प्रापणाव्यभिचारीणि स्वरस्वरूपाणि भवन्ति, तान्येव फलत आह–सजेणेत्यादि श्लोका: १. गंधारं पा० जे२ ॥ २. दंतौष्ठं पा० जे२ ॥ ३. विशेषणार्थः जे१ ॥ ४. स्वरसरूपाणि जे१ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org