________________
[सू० ५५३]
सप्तममध्ययनं सप्तस्थानकम् । शुद्धं द्रव्यं समाश्रित्य सङ्ग्रहस्तदशुद्धितः । नैगम-व्यवहारौ स्त: शेषा: पर्यायमाश्रिताः ।। अन्यदेव हि सामान्यमभिन्नज्ञानकारणम् । विशेषोऽप्यन्य एवेति मन्यते नैगमो नयः ॥ सद्रूपतानतिक्रान्तस्वस्वभावमिदं जगत् । सत्तारूपतया सर्वं सगृह्णन् सङ्ग्रहो मतः ।। व्यवहारस्तु तामेव प्रतिवस्तु व्यवस्थिताम् । तथैव दृश्यमानत्वाद् व्यवहारयति देहिनः ॥ तत्रर्जुसूत्रनीति: स्यात् शुद्धपर्यायसंस्थिता । नश्वरस्यैव भावस्य भावात् स्थितिवियोगतः ॥ अतीता-ऽनागता-ऽऽकार-कालसंस्पर्शवर्जितम् । वर्त्तमानतया सर्वमृजुसूत्रेण सूत्र्यते ॥ विरोधिलिङ्ग-सङ्ख्यादिभेदाद्भिन्नस्वभावताम् । तस्यैव मन्यमानोऽयं शब्दः प्रत्यवतिष्ठते ॥ तथाविधस्य तस्यापि वस्तुनः क्षणवृत्तिनः । ब्रूते समभिरूढस्तु संज्ञाभेदेन भिन्नताम् । एकस्यापि ध्वनेर्वाच्यं सदा तन्नोपपद्यते । क्रियाभेदेन भिन्नत्वादेवंभूतोऽभिमन्यते ॥ [ ] इति । [सू० ५५३] संत्त सरा पन्नत्ता, तंजहासज्जे, रिसभे, गंधारे, मज्झिमे, पंचमे सरे । धेवते चेव, णेसादे, सरा सत्त वियाहिता ॥४७॥ एतेसि णं सत्तण्हं सराणं सत्त सरट्ठाणा पन्नत्ता, तंजहासज्नं तु अग्गजिब्भाते, उरेण रिसभं सरं । कंठुग्गतेण गंधारं, मज्झजिब्भाते मज्झिमं ॥४८॥ णासाते पंचमं बूया, दंतोट्टेण य रेवतं । मुद्धाणेण य णेसातं, सरट्ठाणा वियाहिता ॥४९॥
सत्त सरा जीवनिस्सिता पन्नत्ता, तंजहा१. तृतीये परिशिष्टे टिप्पनं द्रष्टव्यम् । तुलना- अनुयोगद्वार० सू० २६० ॥
25
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org