________________
आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे
लिङ्गादिभिन्नमपि स्वरूपमुज्झति, लिङ्गभिन्नं तटस्तटी तटमिति, वचनभिन्नमापो जलम्, नामादिभिन्नं नाम - स्थापना - द्रव्य-भावभिन्नम्, आह च
तम्हा निजगं संपयकालीयं लिंग - वयणभिन्नं पि ।
नामादिभेयविहियं पडिवज्जइ वत्थुमुज्जुसुओ ॥ [ विशेषाव० २२२६]त्ति ४ । 5 तथा शपनं शपति वा असौ शप्यते वा तेन वस्त्विति शब्दः, तस्यार्थपरिग्रहादभेदोपचारान्नयोऽपि शब्द एव, यथा कृतकत्वादिलक्षणहेत्वर्थप्रतिपादकं पदं हेतुरेवोच्यत इति, आह च
सवणं सवइ स तेणं व सप्पए वत्थु जं तओ सो ।
तस्सऽत्थपरिग्गहओ नओ वि सद्दो त्ति हेतु व्व ॥ [ विशेषाव० २२२७] इति ।
10
अयं च नाम-स्थापना-द्रव्यकुम्भा न सन्त्येवेति मन्यते, तत्कार्याकरणात्, खपुष्पवत्, न च भिन्नलिङ्ग-वचनमेकम्, लिङ्ग-वचनभेदादेव, स्त्री-पुरुषवत् कुटा वृक्ष इत्यादिवत्, अतो घटः कुटः कुम्भ इति स्वपर्यायध्वनिवाच्यमेकमेवेति, आह च
तं चिरिउत्तमयं पच्चुप्पन्नं विसेसियतरं सो ।
15
६७०
25
इच्छइ भावघडं चिय जं न उ नामादओ तिन्नि ॥ [ विशेषाव० २२२८] ५ । तथा नानार्थेषु नानासंज्ञासमभिरोहणात् समभिरूढः, उक्तं चजं जं सन्नं भासइ तं तं चिय समभिरोहए जम्हा ।
घट
सन्नंतरत्थविमुहो तओ कओ समभिरूढो त्ति ॥ [ विशेषाव० २२३६] | अयं हि मन्यते— घट-कुटादयः शब्दा भिन्नप्रवृत्तिनिमित्तत्वाद्भिन्नार्थगोचराः, पटादिशब्दवत्, तथा च घटनात् घटो विशिष्टचेष्टावानर्थो घट इति, तथा कुट कौटिल्ये 20 [पा० धा० १३६७], कुटनात् कुट:, कौटिल्ययोगात् कुट इति घटोऽन्यः कुटोऽप्यन्य एवेति ६ । तथा यथा शब्दार्थ एवं पदार्थो भूतः सन्नित्यर्थोऽन्यथाभूतोऽसन्नितिप्रतिपत्तिपर एवंभूतो नयः, आह च
एवं जहसद्दत्थो संतो भूओ तयऽन्नहाऽभूओ ।
तेणेवंभूयनओ सद्दत्थपरो विसेसेणं ॥ [ विशेषाव० २२५१] ति ।
अयं हि योषिन्मस्तकव्यवस्थितं चेष्टावन्तमेवार्थं घटशब्दवाच्यं मन्यते, न स्थानभरणादिक्रियान्तरापन्नमिति, भवन्ति चात्र श्लोकाः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org