________________
६६९
[सू० ५५२]
सप्तममध्ययन सप्तस्थानकम् । सदिति भणियम्मि जम्हा सव्वत्थाणुप्पवत्तए बुद्धी । तो सव्वं तम्मत्तं नत्थि तदत्थंतरं किंचि ॥ कुंभो भावाणन्नो जइ तो भावो अहऽनहाऽभावो । एवं पडादओ वि हु भावा नन्न त्ति तम्मत्तं ॥ [विशेषाव० २२०७-८] ति २।
तथा व्यवहरणं व्यवहरतीति वा व्यवह्रियते वा अपलप्यते सामान्यमनेन विशेषान् 5 वाऽऽश्रित्य व्यवहारपरो व्यवहारः, आह च
ववहरणं ववहरए स तेण ववहीरते व सामन्नं । ववहारपरो य जओ विसेसओ तेण ववहारो ॥ [विशेषाव० २२१२] इति ।
अयं हि विशेषप्रतिपादनपर: सदित्युक्ते विशेषानेव घटादीन् प्रतिपद्यते, तेषामेव व्यवहारहेतुत्वात्, न तदतिरिक्तं सामान्यम्, तस्य व्यवहारापेतत्वात्, तथा च सामान्यं 10 विशेषेभ्यो भिन्नमभिन्नं वा स्यात् ?, यदि भिन्नं विशेषव्यतिरेकेणोपलभ्येत, न चोपलभ्यते, अथाभिन्नं विशेषमानं तत्, तदव्यतिरिक्तत्वात्, तत्स्वरूपवदिति, आह चउवलंभव्ववहाराभावाओ तव्विसेसभावाओ । तं नत्थि खपुप्फ पिव संति विसेसा सपच्चक्खं ॥ [विशेषाव० २२१४] ति ।
तथा लोकसंव्यवहारपरो व्यवहारः, तथाहि- असौ पञ्चवर्णेऽपि भ्रमरादिवस्तुनि 15 बहुतरत्वात् कृष्णत्वमेव मन्यते, आह च
बहुतरओ त्ति य तं चिय गमेइ संते वि सेसए मुयइ ।। संववहारपरतया ववहारो लोगमिच्छंतो ॥ [विशेषाव० २२२१] इति ३ ।
तथा ऋजु वक्रविपर्ययादभिमुखं श्रुतं ज्ञानं यस्यासौ ऋजुश्रुतः, ऋजु वा । वर्तमानमतीतानागतवक्रपरित्यागाद्वस्तु सूत्रयति गमयतीति ऋजुसूत्रः, उक्तं च- 20
उज्जु रिउं सुयं नाणमुज्जु सुयमस्स सोऽयमुज्जुसुओ। सुत्तयइ वा जमुजु वत्थु तेणुजुसुत्तो त्ति ॥ [विशेषाव० २२२२] ।
अयं हि वर्तमानं निजकं लिङ्ग-वचन-नामादिभिन्नमप्येकं वस्तु प्रतिपद्यते, शेषमवस्त्विति, तथाहि अतीतमेष्यद्वा न भावः, विनष्टानुत्पन्नत्वाददृश्यत्वात्, खपुष्पवत्, तथा परकीयमप्यवस्तु, निष्फलत्वात्, खकुसुमवत्, तस्माद्वर्त्तमानं स्वं वस्तु, तच्च न 25 १. तीति व्यव' जे१ खं० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org