SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ 5 15 ६६८ 20 आचार्यश्री अभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे जावइया वयणपहा तावइया चेव हुंति नयवाया । जावइया नयवाया तावइया चेव परसमय ॥ [ सम्मति० ३।४७ ] त्ति । तत्रानन्तधर्माध्यासिते वस्तुन्येकधर्म्मसमर्थनप्रवणो बोधविशेषो नय इति, तत्र गमे त्ति नैकैर्मानैर्महासत्ता - सामान्यविशेष- विशेषज्ञानैर्मिमीते मिनोति वा नैकमः, आह च 10 अहवा जं णेगगमो णेगपहो गमो तेणं ॥ [ विशेषाव० २१८७] ति । तत्रायं सर्वत्र सदित्येवमनुगताकारावबोधहेतुभूतां महासत्तामिच्छति, अनुवृत्तव्यावृत्तावबोधहेतुभूतं च सामान्यविशेषं द्रव्यत्वादि, व्यावृत्तावबोधहेतुभूतं च नित्यद्रव्यवृत्तिमन्त्यं विशेषमिति । आह- इत्थं तर्ह्ययं नैगमः सम्यग्दृष्टिरेवास्तु सामान्यविशेषाभ्युपगमपरत्वात् साधुवदिति, नैतदेवम्, सामान्यविशेषवस्तूनामत्यन्तभेदाभ्युपगमपरत्वात्तस्येति, आह च भाष्यकार: जं सामन्नविसेसे परोप्परं वत्थुओ य सो भिन्ने । मन्नइ अच्वंतमओ मिच्छादिट्ठी कणादो व्व ॥ दोहिं वि नहिं नीयं सत्थमुलूएण तह वि मिच्छत्तं । जं सविसयप्पहाणत्तणेण अन्नोन्ननिरवेक्खा ॥ [ विशेषाव० २९९४ - ९५ ] इति १ । तथा सङ्ग्रहणं भेदानां सङ्गृह्णाति वा भेदान् सङ्गृह्यन्ते वा भेदा येन स सङ्ग्रहः, उक्तं च संगहणं संगिण्हइ संगिज्झते व तेण जं भेया । तो संगहो ति [ विशेषाव० २२०३] एतदुक्तं भवति– सामान्यप्रतिपादनपरः खल्वयं सदित्युक्ते सामान्यमेव प्रतिपद्यते न विशेषम्, तथा च मन्यते - विशेषाः सामान्यतोऽर्थान्तरभूताः स्युरनर्थान्तरभूता वा ?, 25 यद्यर्थान्तरभूता न सन्ति ते, सामान्यादर्थान्तरत्वात् खपुष्पवत्, अथानर्थान्तरभूताः सामान्यमात्रं ते, तदव्यतिरिक्तत्वात्, तत्स्वरूपवदिति, आह च१. 'संगहियपिंडियत्थं वओ जस्स ॥' इति अवशिष्टोंऽशः ॥ गाइं माणाइं सामन्नोभयविसेसनाणाई । जं तेहिं मिणइ तो गमो णओ णेगमाणो त्ति ॥ [ विशेषाव० २१८६ ] निगमेषु वा अर्थबोधेषु कुशलो भवो वा नैगमः, अथवा नैके गमाः पन्थानो यस्य स नैकगमः, आह च लोगत्थनिबोहा वा निगमा तेसु कुसलो भवो वाऽयं । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001029
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 03
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2004
Total Pages588
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy