________________
[सू० ५५२]
सप्तममध्ययनं सप्तस्थानकम् । [टी०] केवलिनश्च प्रायो गोत्रविशेषवन्त एव भवन्ति प्रव्रज्यायोग्यत्वान्नाभेयादिवदिति सत्त मूलगोत्तेत्यादिना ग्रन्थेन गोत्रविभागमाह, सुगमाश्चायम्, नवरं गोत्राणि तथाविधैकैकपुरुषप्रभवा मनुष्यसन्ताना:, उत्तरगोत्रापेक्षया मूलभूतानि आदिभूतानि गोत्राणि मूलगोत्राणि, कासे भव: कास्य: रसः, तं पीतवानिति कास्यपः, तदपत्यानि कास्यपाः, मुनिसुव्रत-नेमिवर्जा जिनाश्चक्रवर्त्यादयश्च क्षत्रिया: सप्तमगणधरादयो द्विजा: 5 जम्बूस्वाम्यादयो गृहपतयश्चेति, इह च गोत्रस्य गोत्रवद्भयोऽभेदादेवं निर्देश:, अन्यथा कास्यपमिति वाच्यं स्यादेवं सर्वत्र, तथा गोतमस्यापत्यानि गौतमाः क्षत्रियादयो यथा सुव्रत-नेमी जिनौ नारायण-पद्मवर्जवासुदेव-बलदेवा इन्द्रभूत्यादिगणनाथत्रयं वैरस्वामी च, तथा वत्सस्यापत्यानि वत्सा: शय्यम्भवादय:, एवं कुत्सा शिवभूत्यादय: कोच्छं सिवभूई पि य [ कल्पसू०] इति वचनात्, एवं कौशिका: षडुलूकादय:, 10 मण्डोरपत्यानि मण्डवाः, वशिष्ठस्यापत्यानि वाशिष्ठा: षष्ठगणधरा-ऽऽर्यसुहस्त्यादय:, तथा ये ते कास्यपास्ते सप्तविधाः, एके कास्यपशब्दव्यपदेश्यत्वेन कास्यपा एवान्ये तु कास्यपगोत्रविशेषभूतसण्डिलादिपुरुषापत्यरूपा: साण्डिल्यादयोऽवगन्तव्याः । __ [सू० ५५२] सत्त मूलनया पन्नत्ता, तंजहा-नेगमे, संगहे, ववहारे, उज्जुसुते, सद्दे, समभिरूढे, एवंभूते ।
15 [टी०] अयं च मूलगोत्र-प्रतिगोत्रविभागो नयविशेषमताद्भवतीति नयविभागमाहसत्त मूलेत्यादि, मूलभूता नया मूलनया:, ते च सप्त, उत्तरनया हि सप्त शतानि, यदाहएक्केको य सयविहो सत्त नयसया हवंति एवं तु । अन्नो वि य आएसो पंचेव सया नयाणं तु ॥ [आव० नि० ५४२, विशेषाव० २२६४] तथा- 20
१. अत्रेदमवधेयम्- हस्तलिखितादर्शेषु अत्र अग्रे च सर्वत्र कासे भव: कास्यो रसः.... ... इत्येवं सर्वत्र सकारस्यैव प्रयोगः, यत्र तु शकारस्य निर्देशः तत्र पाठभेदो दर्शयिष्यते ॥ २. कस्यप जे१ ॥ ३. कल्पसूत्रे स्थविरावल्या अन्ते चतुर्दशसु गाथाषु प्रथमा गाथा ॥ 'वंदामि फग्गुमित्तं च गोयमं धणगिरिं च वासिटुं। कुच्छं सिवभूई पि य कोसिय दुजंत कण्हे य ॥” इति सम्पूर्णा गाथा ॥ ४. मण्डव: जे१ खं० ॥ ५. वसिष्ट खं० । एवमग्रेऽपि ।। ६. काश्य पा० । एवमग्रेऽपि ॥ ७. काश्य जे१ पा० जे२ । एवमग्रेऽपि। ८. 'शांडि जे१ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org