________________
३३०
आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे च वृद्धेति, वज्रमध्या तु याऽऽद्यन्तवृद्धा मध्ये हीना चेति ।
[सू० २५२] चत्तारि अस्थिकाया अजीवकाया पन्नत्ता, तंजहा-धम्मत्थिकाए, अधम्मत्थिकाए, आगासत्थिकाए, पोग्गलत्थिकाए । चत्तारि अस्थिकाया अरूविकाया पन्नत्ता, तंजहा-धम्मत्थिकाए, अधम्मत्थिकाए, आगासत्थिकाए, 5 जीवत्थिकाए ।
[टी०] प्रतिमाश्च जीवास्तिकाये एवेति तद्विपर्ययस्वरूपाजीवास्तिकायसूत्रम्अत्थिकाय त्ति, ‘अस्ति' इत्ययं त्रिकालवचनो निपातः, अभूवन् भवन्ति भविष्यन्ति चेति भावना, अतोऽस्ति च ते प्रदेशानां कायाश्च राशय इति, अस्तिशब्देन प्रदेशाः क्वचिदुच्यन्ते, ततश्च तेषां वा कायाः अस्तिकायाः, ते चाऽजीवकायाः अचेतनत्वात्। 10 अस्तिकाया मूर्तमूर्त्ता भवन्तीत्यमूर्तप्रतिपादनायाऽरूप्यस्तिकायसूत्रम्, रूपं
मूर्त्तिवर्णादिमत्त्वम्, तदस्ति येषां ते रूपिणः, तत्पर्युदासादरूपिणः अमूर्त्ता इति । _ [सू० २५३] चत्तारि फला पन्नत्ता, तंजहा-आमे णामं एगे आममहुरे १, आमे णामेगे पक्कमहुरे २, पक्के णामेगे आममहुरे ३, पक्के णामेगे पक्कमहुरे
४ । एवामेव चत्तारि पुरिसजाता पन्नत्ता, तंजहा-आमे णामेगे 15 आममहुरफलसमाणे ४ ।
[टी०] अनन्तरं जीवास्तिकाय उक्तः, तद्विशेषभूतपुरुषनिरूपणाय फलसूत्रम्, आमम् अपक्कं सत् आममिव मधुरम् आममधुरमीषन्मधुरमित्यर्थः, तथा आमं सत् पक्वमिव मधुरमत्यन्तमधुरमित्यर्थः, तथा पक्वं सत् आममधुरं प्राग्वत्, तथा पक्वं सत् पक्वमधुरं प्राग्वदेवेति, पुरुषस्तु आमो वयः-श्रुताभ्यामव्यक्तः आममधुरफलसमानः, 20 उपशमादिलक्षणस्य माधुर्यस्याल्पस्यैव भावात्, तथा आम एव पक्वमधुरफलसमानः
पक्वफलवन्मधुरस्वभावः, प्रधानोपशमादिगुणयुक्तत्वादिति, तथा पक्वोऽन्यो वयः-श्रुताभ्यां परिणतः आममधुरफलसमानः, उपशमादिमाधुर्यस्याल्पत्वात्, तथा पक्वस्तथैव, पक्वमधुरफलसमानोऽपि तथैवेति ।
[सू० २५४] चउव्विहे सच्चे पत्नत्ते, तंजहा-काउजुयया, भासुजुयया, 25 भावुजुयता, अविसंवायणाजोगे ।
१. मध्यहीना जे१ खं० ॥ २. काय एवेति जे१ खं० ॥ ३. अस्तीत्यत्र त्रि जे१ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org