________________
[सू० २५१]
चतुर्थमध्ययनं चतुःस्थानकम् । प्रथम उद्देशकः ।
पुनरपि
बन्धनं तस्यैव ज्ञानावरणीयादितया निषिक्तस्य कषायपरिणतिविशेषान्निकाचनमिति, उदीरणम् अनुदयप्राप्तस्य करणेनाकृष्योदये प्रक्षेपणमिति, वेदनं स्थितिक्षयादुदयप्राप्तस्य कर्म्मण उदीरणाकरणेन वोदयभावमुपनीतस्यानुभवनमिति, निर्जरा कर्म्मणोऽकर्म्मत्वभवनमिति, इह च देशनिर्जरैव ग्राह्या, सर्वनिर्जरायाश्चतुर्विंशतिदण्डकेऽसम्भवात् क्रोधादीनां च तदकारणत्वात्, क्रोधादिक्षयस्यैव तत्कारणत्वादिति, इह प्रज्ञापनाधीता सङ्ग्रहगांथा
आयपट्ठिय १ खेत्तं पडुच्च २ णंताणुबंधि ३ आभोगे ४ ।
चिण उवचिण बंध उदीर वेय तह निज्जरा चेव ॥ [ प्रज्ञापना० ४१८ ] ति । [सू० २५१] चत्तारि पडिमाओ पन्नत्ताओ, तंजहा - समाहिपडिमा, उवहाणपडिमा, विवेगपडिमा विउसग्गपडिमा । चत्तारि पडिमाओ पन्नत्ताओ, 10 तंजहा- भद्दा, सुभद्दा, महाभद्दा, सव्वतोभद्दा । चत्तारि पडिमातो पन्नत्ताओ, तंजा - खुड्डिया मोयपडिमा महल्लिया मोयपडिमा, जवमज्झा, वइरमज्झा।
,
[टी०] अनन्तरं निर्जरोक्ता, सा च विशिष्टा प्रतिमाद्यनुष्ठानाद्भवतीति प्रतिमासूत्रम्, तद् द्विस्थानकाधीतमपीहाधीयते, चतुःस्थानकानुरोधादिति, व्याख्याऽप्यस्य पूर्ववदनुसर्त्तव्या, किन्तु स्मरणाय किञ्चिदुच्यते- समाधिः श्रुतं चारित्रं च तद्विषया 15 प्रतिमा प्रतिज्ञा अभिग्रहः समाधिप्रतिमा, द्रव्यसमाधिर्वा प्रसिद्ध:, तद्विषया प्रतिमा अभिग्रहः समाधिप्रतिमा, एवमन्या अपि, नवरमुपधानं तपः, विवेकः अशुद्धाऽतिरिक्तभक्त-पान-वस्त्र- शरीर - तन्मलादित्यागः, विउसग्गे त्ति कायोत्सर्गः । तथा पूर्वादिदिचतुष्टयाभिमुखस्य प्रत्येकं प्रहरचतुष्टयमानः कायोत्सर्गे भद्रेति, अहोरात्रद्वयेन चास्याः समाप्तिरिति, सुभद्राऽप्येवंभूतैव सम्भाव्यते, न च दृष्टेति न लिखितेति, एवमेव 20 चाहोरात्रप्रमाणः कायोत्सर्गे महाभद्रा, चतुर्भिश्चाहोरात्रैरियं समाप्यते, यस्तु दिग्दशकाभिमुखस्याहोरात्रप्रमाणः कायोत्सर्गः सा सर्व्वतोभद्रा, सा च दशभिरहोरात्रैः समाप्यत इति । मोयप्रतिमा प्रश्रवणप्रतिज्ञा, सा च क्षुल्लिका या षोडशभक्तेन समाप्यते महती तु याऽष्टादशभक्तेनेति, यवमध्या या यववद्दत्ति-कवलादिभिराद्यन्तयोर्हीना मध्ये १. 'दक्षेपणमिति जे१ खं० पा० ॥ २. प्रज्ञापनासूत्रे चतुर्दशपदसमाप्तौ गाथेयं वर्तते ॥ ३. विस जे२ ॥ “व्युत्सर्गो विउसग्गो" - प्राकृतव्या०टी० २ १७४ ॥ ४. सू० ७७ ॥ ५. विसग्गे जे१ ॥
Af
Jain Education International
For Private & Personal Use Only
३२९
5
www.jainelibrary.org