SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ ३२८ आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे अनन्तान्यनुबध्नन्ति यतो जन्मानि भूतये । अतोऽनन्तानुबन्ध्याख्या क्रोधाद्याद्येषु दर्शिता ॥ नाल्पमप्युत्सहेद्येषाम् प्रत्याख्यानमिहोदयात् । अप्रत्याख्यानसंज्ञाऽतो द्वितीयेषु निवेशिता ॥ सर्वसावद्यविरतिः प्रत्याख्यानमुदाहृतम् । तदावरणसंज्ञाऽतस्तृतीयेषु निवेशिता ॥ शब्दादीन् विषयान् प्राप्य सज्वलन्ति यतो मुहुः । अत: सज्वलनाह्वानं चतुर्थानामिहोच्यते ॥ [ ] इति । एवं मानादिभिरपि दण्डकत्रयम् । आभोगणिव्वत्तिए त्ति आभोगो ज्ञानं तेन 10 निर्वतितो यज्जानन् कोपविपाकादि रुष्यति, इतरस्तु यदजानन्निति, उपशान्तः अनुदयावस्थः, तत्प्रतिपक्षोऽनुपशान्तः, एके न्द्रियादीनामाभोगनिर्वर्तितः संज्ञिपूर्वभवापेक्षया, अनाभोगनिवर्त्तितस्तु तद्भवापेक्षयाऽपि, उपशान्तो नारकादीनां विशिष्टोदयाभावात्, अनुपशान्तो निर्विचार एवेति, एवं मानादिभिरपि दण्डकत्रयम् । [सू० २५०] जीवा णं चउहि ठाणेहिं अट्ठ कम्मपगडीओ चिणिंसु, तंजहा15 कोहेणं, माणेणं, मायाए, लोभेणं । एवं जाव वेमाणियाणं २ । एवं चिणंति एस दंडओ, एवं चिणिस्संति एस दंडओ, एवमेतेणं तिनि दंडगा । एवं उवचिणिंसु उवचिणंति उवचिणिस्संति, बंधिंसु ३, उदीरिंसु ३, वेदेंसु ३, निजरेंसु णिज्जरेंति निजरिस्संति, जाव वेमाणियाणं । एवमेक्केक्के पदे तिन्नि तिन्नि दंडगा भाणियव्वा जाव निजरिस्संति । 20 [टी०] इदानीं कषायाणामेव कालत्रयवर्तिनः फलविशेषा उच्यन्ते– जीवा णमित्यादि गतार्थम्, नवरं चयनं कषायपरिणतस्य कर्मपुद्गलोपादानमात्रम्, उपचयनं चितस्याबाधाकालं मुक्त्वा ज्ञानावरणीयादितया निषेकः, स चैवम्- प्रथमस्थितौ बहुतरं कर्मदलिकं निषिञ्चति, ततो द्वितीयायां विशेषहीनम्, एवं यावदुत्कृष्टायां विशेषहीनं निषिञ्चति, उक्तं च मोत्तूण सगमवाहं पढमाइ ठिईए बहुतरं दव्वं । सेसे विसेसहीणं जावुक्कोसंति सव्वेसिं ॥ [ ] ति । १. "क्कस्संति सव्वासिं जे१ । 'क्कोस्सिंति सव्वेसिं खं० । कस्संति सव्वेसिं पामू०, क्कोस्सिंति सव्वासिं पासं०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001028
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 02
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages579
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy