________________
३२७
[सू० २४९] चतुर्थमध्ययनं चतुःस्थानकम् । प्रथम उद्देशकः । वा, उपधिर्यद्यस्योपकरणम्, एकेन्द्रियादीनां भवान्तरापेक्षयेति, एवं मानादिभिरपि दण्डकत्रयम् ।
अनन्तं भवमनुबध्नाति अविच्छिन्नं करोतीत्येवंशीलोऽनन्तानुबन्धी अनन्तो वाऽनुबन्धोऽस्येत्यनन्तानुबन्धी सम्यग्दर्शनसहभाविक्षमादिस्वरूपोपशमादिचरणलवविबन्धी, चारित्रमोहनीयत्वात् तस्य, न चोपशमादिभिरेव चारित्री 5 अल्पत्वाद्यथाऽमनस्को न संज्ञी किन्तु महता मूलगुणादिरूपेण चारित्रेण चारित्री, मनःसंज्ञया संज्ञिवत्, अत एव त्रिविधं दर्शनमोहनीयं पञ्चविंशतिविधं चारित्रमोहनीयमिति। _ ननु पंढमिल्ल्याण उदए नियमे [आव०नि० १०८]त्यादि विरुध्यते, चारित्रावारकस्य सम्यक्त्वावारकत्वानुपपत्तेः, अत एव सप्तविधं दर्शनमोहनीयमेकविंशतिविधं चारित्रमोहनीयमिति मतं सङ्गतमाभातीति, अत्रोच्यते, पढमिल्लुयाणे त्यादि यदुक्तं 10 तदनन्तानुबन्धिनां न सम्यक्त्वावारकतया किन्तु सम्यक्त्वसहभाव्युपशमाद्यावारकतया, अन्यथाऽनन्तानुबन्धिभिरेव सम्यक्त्वस्यावृतत्वात् किमपरेण मिथ्यात्वेन प्रयोजनम् ?, आवृतस्याप्यावरणेऽनवस्थाप्रसङ्गात्, तस्माद्यथा केवलियनाणलंभो नन्नत्थ खए कसायाणं [आव०नि० १०४] ति इह कषायाणां केवलज्ञानस्यानावारकत्वेऽपि कषायक्षयः केवलज्ञानकारणतयोक्तः, तस्मिन्नेव तस्य भावाद्, एवमनन्तानुबन्धिक्षयोपशम एव 15 सम्यक्त्वलाभ उच्यते, तस्मिन् सति तस्य भावाद्, यतो नानन्तानुबन्धिषूदितेषु मिथ्यात्वं क्षयोपशममुपयाति, तदभावाच्च न सम्यक्त्वमिति, यच्च सप्तविधं सम्यग्दर्शनमोहनीयमिति मतान्तरं तत् सम्यक्त्वसहचरितत्वेनोपशमादिगुणानां सम्यक्त्वोपचारादिति मन्यामह इति । ___ न विद्यते प्रत्याख्यानम् अणुव्रतादिरूपं यस्मिन् सोऽप्रत्याख्यानो देशविरत्यावारकः, 20 प्रत्याख्यानम् आ मर्यादया सर्वविरतिरूपमेवेत्यर्थो वृणोतीति प्रत्याख्यानावरणः सज्वलयति दीपयति सर्वसावधविरतिमपीन्द्रियार्थसम्पाते वा सज्वलति दीप्यत इति सज्वलनः यथाख्यातचारित्रावारकः, एवं मान-माया-लोभेष्वप्यनन्तानुबन्ध्यादिभेदचतुष्टयमध्येतव्यमिति, एषां निरुक्तिः पूज्यैरियमुक्ता१. 'पढमिल्ल्याण उदए नियमा संजोयणाकसायाणं । सम्मइंसणलंभं भवसिद्धिया वि न लहंति ॥' इति सम्पूर्णा
गाथा ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org