________________
३२६
आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे सुहदुक्खबहुसईयं कम्मक्खेत्तं कसंति ते जम्हा । कलुसंति जं च जीवं तेण कसाय त्ति वुच्चंति ॥ [ ]
अथवा कषति हिनस्ति देहिन इति कषं कर्म भवो वा, तस्याऽऽया लाभहेतुत्वात् कषं वा आययन्ति गमयन्ति देहिन इति कषायाः, उक्तं च5 कम्मं कसं भवो वा कसमाओ सिं जओ कसायातो।
कसमाययंति व जओ गमयंति कसं कसाय त्ति ॥ [विशेषाव० १२२८, २९७८] त्ति ।
तत्र क्रोधनं क्रुध्यति वा येन स क्रोधः क्रोधमोहनीयोदयसम्पाद्यो जीवस्य परिणतिविशेषः क्रोधमोहनीयकर्मैव वेति, एवमन्यत्रापि, नवरं जात्यादिगुणवानहमेवेत्येवं
मननम् अवगमनं मन्यते वाऽनेनेति मानः, तथा मानं हिंसनं वञ्चनमित्यर्थो मीयते 10 वाऽनयेति माया, तथा लोभनम् अभिकाङ्क्षणं लुभ्यते वाऽनेनेति लोभः ।
एवमिति यथा सामान्यतश्चत्वारः कषायास्तथा विशेषतो नारकाणामसुराणां यावच्चतुर्विंशतितमे पदे वैमानिकानामिति ।
चउप्पइट्ठिए त्ति चतुर्षु आत्मपरोभयतदभावेषु प्रतिष्ठितः चतुःप्रतिष्ठितः, तत्र आयपइट्ठिए त्ति आत्मापराधेनैहिकापायदर्शनादात्मविषय आत्मप्रतिष्ठितः, परेणा15 क्रोशादिनोदीरितः परविषयो वा परप्रतिष्ठितः, आत्म-परविषय उभयप्रतिष्ठितः,
आक्रोशादिकारणनिरपेक्षः केवलं क्रोधवेदनीयोदयाद् यो भवति सोऽप्रतिष्ठितः, उक्तं च
सापेक्षाणि च निरपेक्षाणि च कर्माणि फलविपाकेषु ।।
सोपक्रमं च निरुपक्रमं च दृष्टं यथाऽऽयुष्कम् ॥ [ ] इति । 20 अयं च चतुर्थभेदो जीवप्रतिष्ठितोऽपि आत्मादिविषयेऽनुत्पन्नत्वादप्रतिष्ठित उक्तः, न
तु सर्वथा अप्रतिष्ठितः, चतुःप्रतिष्ठितत्वस्याभावप्रसङ्गादिति । एकेन्द्रिय-विकलेन्द्रियाणां कोपस्यात्मादिप्रतिष्ठितत्वं पूर्वभवे तत्परिणामपरिणतमरणेनोत्पन्नानामिति । एवं मानमाया-लोभैर्दण्डकत्रयमपरमध्येतव्यमिति । क्षेत्रं नारकादीनां ४ स्वं स्वमुत्पत्तिस्थानं प्रतीत्य आश्रित्य, एवं वस्तु सचेतनादि ३ वास्तु वा गृहम्, शरीरं दुःसंस्थितं विरूपं १. “मीङ् हिंसायाम्'- पा० धा० ११३७, “मीञ् हिंसायाम्' -पा०धा० १४७७ ।. तुलना- है०धा० ३।१०३,
८1५ ॥ २. प्रथम परिशिष्टे टिप्पनं द्रष्टव्यम् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org