________________
३२२
10
सवियारमत्थवंजणजोगंतरओ तयं पढमसुक्कं ।
होति पुंहुत्तवियक्कं सवियारमरागभावस्स ॥ [ ध्यानश० ७७-७८]
इत्येको भेदः । तथा एगत्तवियक् त्ति एकत्वेन अभेदेनोत्पादादिपर्यायाणामन्यतमैकपर्यायालम्बनतयेत्यर्थो वितर्कः पूर्वगतश्रुताश्रयो व्यञ्जनरूपोऽर्थरूपो 5 वा यस्य तदेकत्ववितर्कम्, तथा न विद्यते विचारोऽर्थ - व्यञ्जनयोरितरस्मादितरत्र तथा मनःप्रभृतीनामन्यतरस्मादन्यत्र सञ्चरणलक्षणो निवातगृहगतप्रदीपस्येव यस्य तदविच पूर्ववदिति, उक्तं च
जं पुण सुनिप्पकंपं निवायसरणप्पईवमिव चित्तं ।
उप्पायठिडुभंगाइयाणमेगम्मि पज्जा ॥
अवियारमत्थवंजणजोगंतरओ तयं बिइयसुक्कं ।
पुव्वगयसुयालंबणमेगत्तवियक्कमवियारं ॥ [ ध्यानश० ७९-८०] इति द्वितीयः । तथा सुहुमकिरिए त्ति निर्वाणगमनकाले के वलिनो निरुद्धमनोवाग्योगस्यार्द्धनिरुद्धकाययोगस्यैतद्, अतः सूक्ष्मा क्रिया कायिकी उच्छ्वासादिका यस्मिंस्तत्तथा, न निवर्त्तते न व्यावर्त्तत इत्येवंशीलमनिवर्त्ति प्रवर्द्धमानतरपरिणामादिति, 15 भणितं च
आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे
निव्वाणगमणकाले केवलिणो दरनिरुद्धजोगस्स ।
सुहुमकिरियाऽनियहिं तइयं तणुकायकिरियस्स ।। [ध्यानश० ८१] इति तृतीयः । तथा, समुच्छिन्नकिरिए त्ति समुच्छिन्ना क्षीणा क्रिया कायिक्यादिका शैलेशीकरणे निरुद्धयोगत्वेन यस्मिंस्तत्तथा, अप्पडिवाए त्ति अनुपरतिस्वभावमिति चतुर्थः, आह 20 हि
तस्सेव य सेलेसीगयस्स सेलो व्व निप्पकंपस्स ।
वोच्छिन्नकिरियमप्पडिवाई झाणं परमसुक्कं ॥ [ ध्यानश० ८२] ति ।
इह चान्त्ये शुक्लभेदद्वये अयं क्रमः- केवली किलान्तर्मुहुर्त्तभाविनि परमपदे, भवोपग्राहिकर्म्मसु च वेदनीयादिषु समुद्घाततो निसर्गेण वा समस्थितिषु सत्सु योगनिरोधं 25 करोति, तत्र च -
१. पुहत्त पा० जे२ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org