SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ ३२० आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे दोषोऽसकृत्प्रवृत्तिरिति नानाविधदोष इति, तथा मरणमेवान्तो मरणान्तः, आ मरणान्तादामरणान्तम् असञ्जातानुतापस्य कालसौकरिकादेरिव या हिंसादिषु प्रवृत्तिः सैव दोष आमरणान्तदोषः । । ___ अथ धर्म्यं चतुर्विधमिति स्वरूपेण, चतुर्षु पदेषु स्वरूप-लक्षणा-ऽऽलम्बना5 ऽनुप्रेक्षालक्षणेष्ववतारो विचारणीयत्वेन यस्य तच्चतुष्पदावतारम्, चतुर्विधस्यैव पर्यायो वाऽयमिति, क्वचित् चउप्पडोयारमिति पाठस्तत्र चतुर्षु पदेषु प्रत्यवतारो यस्येति विग्रह इति । आणाविजए त्ति आ अभिविधिना ज्ञायन्तेऽर्था यया साऽऽज्ञा प्रवचनम्, सा विचीयते निर्णीयते पर्यालोच्यते वा यस्मिंस्तदाज्ञाविचयं धर्मध्यानमिति, प्राकृतत्वेन विजयमिति, आज्ञा वा विजीयते अधिगमद्वारेण परिचिता क्रियते 10 यस्मिन्नित्याज्ञाविजयम्, एवं शेषाण्यपि, नवरम् अपाया रागादिजनिताः प्राणिनामैहिकामुष्मिका अनर्थाः, विपाकः फलं कर्मणां ज्ञानाद्यावारकत्वादि, संस्थानानि लोक-द्वीप-समुद्र-जीवादीनामिति, आह च आप्तवचनं प्रवचनमाज्ञा विचयस्तदर्थनिर्णयनम् । आश्रव-विकथा-गौरव-परीषहाद्यैरपायस्तु ॥ अशुभ-शुभकर्मपाकानुचिन्तनार्थो विपाकविचय: स्यात् । द्रव्य-क्षेत्राकृत्यनुगमनं संस्थानविचयस्तु ॥ [प्रशम० २४८-२४९] इति । एतल्लक्षणान्याह- आणारुइ त्ति आज्ञा सूत्रव्याख्यानं नियुक्त्यादि तत्र तया वा रुचिः श्रद्धानम् आज्ञारुचिः, एवमन्यत्रापि, नवरं निसर्गः स्वभावोऽनुपदेशस्तेन, तथा सूत्रम् आगमः तत्र तस्माद्वा, तथा अवगाहनमवगाढम् द्वादशाङ्गावगाहो विस्तराधिगम 20 इति सम्भाव्यते, तेन रुचिः, अथवा ओगाढ त्ति साधुप्रत्यासन्नीभूतस्तस्य साधूपदेशाद् रुचिः , उक्तं च आगमउवएसेणं निसग्गओ जं जिणप्पणीयाणं । भावाणं सद्दहणं धम्मज्झाइस्स तं लिंग ॥ [ध्यानश० ६७] ति । तत्त्वार्थश्रद्धानरूपं सम्यक्त्वं धर्मस्य लिङ्गमिति हृदयम् । धर्मस्यालम्बनान्युच्यन्ते, 25 धर्मध्यानसौधारोहणार्थमालम्ब्यन्त इत्यालम्बनानि, वाचनं वाचना विनेयाय निर्जरायै १. धर्म पामू० ॥ २. त्ति अभि° जे१ पा० जे२ ॥ ३. "विचयं ध्यानमिति जे१ ॥ 15 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001028
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 02
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages579
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy