SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ [सू० २४७] चतुर्थमध्ययनं चतुःस्थानकम् । प्रथम उद्देशकः । ३१९ निंदइ निययकयाई पसंसइ सविम्हओ विभूतीओ । पत्थेइ तासु रज्जइ तयज्जणपरायणो होइ ॥ [ध्यानश० १६] त्ति । __ अथ रौद्रध्यानभेदा उच्यन्ते, हिंसां सत्त्वानां वध-बन्धनादिभिः प्रकारैः पीडामनुबध्नाति सततप्रवृत्तां करोतीत्येवंशीलं यत् प्रणिधानं हिंसानुबन्धो वा यत्रास्ति तद्धिंसानुबन्धि रौद्रध्यानम् इति प्रक्रम इति, उक्तं च 5 सत्तवहवेहबंधणडहणंकणमारणाइपणिहाणं । अइकोहग्गहघत्थं णिग्घिणमणसोऽहमविवागं ॥ [ध्यानश० १९] ति । तथा मृषा असत्यम्, तदनुबध्नाति पिशुना-ऽसभ्याऽसद्भूतादिभिर्वचनभेदैस्तन्मृषानुबन्धि, आह चपिसुणा-ऽसब्भा-ऽसब्भूय-भूयघायाइवयणपणिहाणं । मायाविणोऽतिसंधणपरस्स पच्छन्नपावस्स ॥ [ध्यानश० २०] त्ति । तथा स्तेनस्य चौरस्य कर्म स्तेयं तीव्रक्रोधाद्याकुलतया तदनुबन्धवत् स्तेयानुबन्धि, आह चतह तिव्वकोह-लोहाउलस्स भूतोवघायणमणज्जं । परदव्वहरणचित्तं परलोगावायनिरवेक्खं ॥ [ध्यानश० २.] ति । __ संरक्षणे सर्वोपायैः परित्राणे विषयसाधनधनस्यानुबन्धो यत्र तत् संरक्षणानुबन्धि, यदाह सद्दाइविसयसाहणधणसंरक्खणपरायणमणिटुं । सव्वाहिसंकण-परोवघायकलुसाउलं चित्तं ॥ [ध्यानश० २२] ति । अथैतल्लक्षणान्युच्यन्ते- ओसन्नदोसे त्ति हिंसादीनामन्यतरस्मिन् ओसन्नं प्रवृत्ते: 20 प्राचुर्यं बाहुल्यं यत् स एव दोषः, अथवा ओसन्नं ति बाहुल्येनानुपरतत्वेन दोषो हिंसादीनां चतुर्णामन्यतर ओसन्नदोषः, तथा बहुष्वपि सर्वेष्वपि हिंसादिषु दोषः प्रवृत्तिलक्षणो बहुदोषः, बहुर्वा बहुविधो हिंसानृतादिरिति बहुदोषः, तथा अज्ञानात् कुशास्त्रसंस्कारात् हिंसादिष्वधर्मस्वरूपेषु नरकादिकारणेषु धर्मबुद्ध्याऽभ्युदयार्थं या प्रवृत्तिस्तल्लक्षणो दोषोऽज्ञानदोषः, अथवा उक्तलक्षणमज्ञानमेव दोषोऽज्ञानदोष इति, 25 अन्यत्र नानाविधदोष इति पाठस्तत्र नानाविधेषु त्वक्तक्षणादिषु हिंसाधुपायेषु १. दृश्यतां तत्त्वार्थसिद्ध० ९।३६ ॥ 15 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001028
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 02
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages579
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy