________________
३१८
आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे अवियोग इति द्वितीयमार्त्तमिति । तथा आतङ्को रोग इति तृतीयम् ।
तथा परिजुसिय त्ति निषेविताः ये कामाः कमनीयाः भोगाः शब्दादयः, अथवा कामौ शब्द-रूपे भोगाः गन्ध-रस-स्पर्शाः कामभोगाः, कामानां वा शब्दादीनां
यो भोगस्तैस्तेन वा सम्प्रयुक्तः, पाठान्तरे तु तेषां तस्य वा सम्प्रयोगस्तेन सम्प्रयुक्तो 5 यः स तथा, अथवा परिझुसिय त्ति परिक्षीणो जरादिना स चासौ कामभोगसम्प्रयुक्तश्च यस्तस्य तेषामेवाऽविप्रयोगस्मृतेः समन्वागतं समन्वाहारः, तदपि भवत्यात ध्यानमिति चतुर्थम् । द्वितीयं वल्लभधनादिविषयं चतुर्थं तत्सम्पाद्यशब्दादिभोगविषयमिति भेदोऽनयोर्भावनीयः, शास्त्रान्तरे तु द्वितीय-चतुर्थयोरेकत्वेन तृतीयत्वम्, चतुर्थं तु तत्र
निदानमुक्तम्, उक्तं च10 अमणुन्नाणं सद्दाइविसयवत्थूण दोसमइलस्स। वस्तूनि शब्दादिसाधनानि, दोसो त्ति द्वेषः।
धणियं वियोगचिंतणमसंपयोगाणुसरणं च ॥ तह सूल-सीसरोगाइवेयणाए वियोगपणिहाणं । तयसंपयोगचिंता तप्पडियाराउलमणस्स ॥
इट्ठाणं विसयाईण वेयणाए य रागरत्तस्स । 15 अवियोगज्झवसाणं तह संजोगाभिलासो य ॥ देविंद-चक्कवट्टित्तणाइगुणरिद्धिपत्थणामइयं । अहमं नियाणचिंतणमन्नाणाणुगयमच्चंतं ॥ [ध्यानश० ६-९] ति ।
आर्तध्यानलक्षणान्याह- लक्ष्यते निर्णीयते परोक्षमपि चित्तवृत्तिरूपत्वादार्तध्यानमेभिरिति लक्षणानि, तत्र क्रन्दनता महता शब्देन विरवणम्, शोचनता दीनता, 20 तेपनता तिपेः क्षरणार्थत्वादश्रुविमोचनम्, परिदेवनता पुनः पुनः क्लिष्टभाषणमिति,
एतानि चेष्टवियोगा-ऽनिष्टसंयोग-रोगवेदनाजनितशोकरूपस्यैवार्तस्य लक्षणानि, यत आहतस्सक्वंदण-सोयण-परिदेवण-ताडणाई लिंगाई ।
इट्ठाणिट्ठवियोगा-ऽवियोग-वियणानिमित्ताई ॥ [ध्यानश० १५] ति । 25 निदानस्यान्येषां च लक्षणान्तरमस्ति, आह च
१. “तिपङ क्षरणे" - है०धा० ७५० । तुलना- पा०धा० ३६२ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org