SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ [सू० २४७] चतुर्थमध्ययनं चतुःस्थानकम् । प्रथम उद्देशकः । ३१७ १, एगत्तवितक्के अवियारी २, सुहुमकिरिए अणियट्टी ३, समुच्छिन्नकिरिए अप्पडिवाती ४। सुक्कस्स णं झाणस्स चत्तारि लक्खणा पन्नत्ता, तंजहाअव्वहे, असम्मोहे, विवेगे, विउस्सग्गे । सुक्कस्स णं झाणस्स चत्तारि आलंबणा पन्नत्ता, तंजहा- खंती, मुत्ती, मद्दवे, अज्जवे । सुक्कस्स णं झाणस्स चत्तारि अणुप्पेहाओ पन्नत्ताओ, तंजहा- अणंतवत्तियाणुप्पेहा, 5 विप्परिणामाणुप्पेहा, असुभाणुप्पेहा, अवायाणुप्पेहा । [टी०] नारकत्वं ध्यानविशेषाद्,ध्यानविशेषार्थमेव च संघाट्यादिपरिग्रह इति ध्यानं प्रकरणत आह, सुगमं चैतत्, नवरं ध्यातयो ध्यानानि, अन्तर्मुहूर्त्तमानं कालं चित्तस्थिरतालक्षणानि, उक्तं चअंतोमुहत्तमित्तं चित्तावत्थाणमेगवत्थुम्मि । 10 छउमत्थाणं झाणं जोगनिरोहो जिणाणं तु ॥ [ध्यानश० ३] त्ति । तत्र ऋतं दुःखं तस्य निमित्तं तत्र वा भवं ऋते वा पीडिते भवमार्तं ध्यानं दृढोऽध्यवसायः, हिंसाद्यतिक्रौर्यानुगतं रौद्रम्, श्रुत-चरणधर्मादनपेतं धर्म्यम्, शोधयत्यष्टप्रकारं कर्ममलं शुचं वा क्लमयतीति शुक्लम् । चउव्विहे त्ति चतस्रो विधा भेदा यस्य तत्तथा, अमनोज्ञस्य अनिष्टस्य, असमणुनस्स त्ति पाठान्तरे अस्वमनोज्ञस्य 15 अनात्मप्रियस्य शब्दादिविषयस्य तत्साधनवस्तुनो वा सम्प्रयोगः सम्बन्धस्तेन सम्प्रयुक्तः सम्बद्धः अमनोज्ञसम्प्रयोगसम्प्रयुक्तः अस्वमनोज्ञसम्प्रयोगसम्प्रयुक्तो वा, य इति गम्यते, तस्येति अमनोज्ञशब्दादेर्विप्रयोगाय विप्रयोगार्थं स्मृति: चिन्ता तां समन्वागत: समनुप्राप्तो भवति यः प्राणी सोऽभेदोपचारादार्त्तमिति, चापीति शब्द उत्तरविकल्पापेक्षया समुच्चयार्थः, अथवा अमनोज्ञसम्प्रयोगसम्प्रयुक्तो यः प्राणी तस्य प्राणिनः विप्रयोगे 20 प्रक्रमादमनोज्ञशब्दादिवस्तूनां वियोजने स्मृति: चिन्तनम्, तस्याः समन्वागतं समागमनं समन्वाहारो विप्रयोगस्मृतिसमन्वागतम्, चापीति तथैव, भवति आर्त्तध्यानमिति प्रक्रमः, अथवा अमनोज्ञसम्प्रयोगसम्प्रयुक्ते प्राणिनि तस्येति अमनोज्ञशब्दादेर्विप्रयोगस्मृतिसमन्वागतमार्तध्यानमिति, उक्तं च आर्तममनोज्ञानां सम्प्रयोगे तद्विप्रयोगाय स्मृतिसमन्वाहारः [तत्त्वार्थ० ९ ।३१] 25 इति प्रथमम्, एवमुत्तरत्रापि, नवरं मनोज्ञं वल्लभं धन-धान्यादि, अविप्रयोगः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001028
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 02
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages579
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy